________________
पिरिसिरि । अह चित्तमासमाहिआउ विहिआउ तत्थ विहिपुव्वं । सिरिसिद्धचकपूआविहीवि आराहिओ तेण ॥ वालकहा !
| अन्नदिणे तस्स जिणालयस्स सुबलाणयमि आसीणो।राया कुमारसहिओ कारावाजाव जिणमहिमं॥ ॥६ ॥ ता दंडपासिएणं विन्नत्तो देव ! सत्थवणिएणं । एगेण दाणभंगं काउं आणावि तुह भग्गा ॥
सो अस्थि मए बद्धो एसो को तस्स सासणाएसो ? । राया भणेइ आणाभंगे पाणा हरिजति ॥ । कुमरो भणेइ मा मा मारणादेसमिह ठिओ देसु । सावजवयणकहणेवि जिणहरे जेण गुरुदोसो ।
अथ-अनन्तरं तेन श्रीपालकुमारेण तत्र नगय्यां विधिपूर्व चैत्रमासस्य अष्टाहिका विहिता-कृता, श्रीसिद्धचक्रस्य पूजाविधिरपि आराधितः-सेवितः, अत्र पूर्वार्धे एकस्तुशब्दो विशेष द्वितीयः पादपूरणे ॥ ५८८ ॥ अन्यस्मिन् दिने तस्य जिनालयस्य-जिनगृहस्य सुबलानके-जनोपवेशनस्थाने आसीन-उपविष्टो राजा कुमारसहितो यावत् जिनस्य-भगवतो महिमानं कारयति ॥ ५८६ ॥ तावत् दण्डपाशिकेन-दण्डनियोगिपुरुषेण राजा विज्ञप्त:-हे देव-हे राजन् ! एकेन सार्थवणिजा दानभङ्गं कृत्वा तवाज्ञाऽपि भन्ना ।। ५६० ॥ स-एष सार्थवणिक् मया बद्धोऽस्ति तस्य का शासनादेशः-का शिक्षणाज्ञा? को दण्ड इत्यर्थः, तदा राजा भणति-प्राज्ञाभङ्गे प्राणा हियन्ते प्राणापहारः क्रियते, इत्यर्थः ।। ५६१।। एतन्नृपवचः श्रुत्वा | कुमारो भणति, हे महाराज ! इह-जिनालयभूमौ स्थितः सन् मारणादेशं मा मा-मा दत्स्व-मा देहीत्यर्थः, येन कारणेन | जिनगृहे सावद्यस्य-सदोषस्य वचनस्य कथनेऽपि गुरुः-महान् दोषोऽस्ति ।। ५६२॥
Jain Education
a
l
For Private & Personel Use Only
www.jainelibrary.org