________________
वालकहा
सिरिसिरि. । कुमरोवि जिणं नमिडं सीसमि निवेसिऊण जिण सेसं । बहिमंडवमि करवंदणेण वंदेइ नरनाहं ॥
नरनाहो अभिणंदिअतं पभणइ वच्छ! जह तए भवणं। उग्घाडियंतहा नियचरियपि हु अम्ह पयडेसुः। निअनामपि हु जति उत्तमा ता कहमि कह चरिश्मचिंतइ जा कुमरो ता पत्तो चारणमुणिंदो॥ सो वंदिऊण देव उवविट्टो जाव ताव तं नमिउं। उववि सुनिवाइसु चारणसमणो कहइ धम्मं ॥५५८॥ भो भो महाणुभावा! सम्मं धम्मं करेह जिणकहियं । जइ वंछह कवाणं इहलोए तहय परलोए ।
कुमारोऽपि जिनं नत्वा-प्रणम्य शीर्ष-निजमस्तके जिनशेषां-जिननिर्माल्यं पुष्पादिकं निवेश्य-संस्थाप्य बहिर्मण्डपे कराभ्यां वन्दनेन नरनाथं-राजानं वन्दते-प्रणमति ॥ ५५५ ॥ नरनाथो-राजा तं श्रीपालं अभिनन्द्य-आशिषा सन्तोष्य प्रभणति-हे वत्स ! यथा त्वया भवन-जिनमन्दिरं उद्घाटितं तथा निजचरितमपि अस्माकं पुरस्तात् प्रकटय-प्रकटीकुरु | ॥ ५५६ ॥ हु इति निश्चितं उत्तमाः पुरुषा निजनामापि न जन्पन्ति-न कथयन्ति, ततः-तर्हि स्वस्य चरितं कथं कथयामि', इत्येवं यावत्कुमारश्चिन्तयति तावत्तत्र चारणमुनीन्द्रः प्राप्त-आकाशमार्गेणाजगाम ।। ५५७ ।। सः-चारणलन्धिमान् साधुदैवान् वन्दित्वा यावत् उपविष्टस्तावत तं साधु नत्वा नृपादिषु उपविष्टेषु सत्सु चारणश्रमणो नृपादीनां पुरस्तात् धर्म कथयति ॥ ५५८ ॥ महान अनुभावः-प्रभावो येषां ते म० भो भो महानुभावा ! यूयं जिनैः कथितं धर्म सम्यक् कुरुत, यदि इह लोके-अस्मिन् भवे तथा च परलोके-परभवे कल्याणं वाञ्छत ।। ५५६ ।।
वान् वा
महान्
॥६४॥
Jain Education in
For Private
Personal Use Only
www.jainelibrary.org