________________
Jain Education Interna
धम्म जिहिं कहिओ तत्ततिगाराहणामओ रम्मो । तत्ततिगं पुण भणिअं देवो अ गुरू अ धम्मो अ॥ sitaara उ भेना नेया कमसो द तिन्नि चत्तारि । तत्थऽरिहंता सिद्धा दो भेया देवतत्तस्स ॥ आयरिअउवज्झाया सुसाहुणो चेव तिन्नि गुरुभेा । दंसणनाणचरित्तं तवो अ धम्मस्स चउभे ॥ एए नवपसुं अवयरिअं सासणस्स सव्वस्सं । ता एयाई पयाई आराहह परमभक्त्तीए ॥ ५६३ ॥
जिनैस्तत्त्वत्रिकस्य आराधना स्वरूपमस्येति तत्त्वविकाराधनामयो रम्यो- मनोज्ञो धर्मः कथितः तस्वत्रिकं पुनर्भणितं देवश्व गुरुश्च धर्मश्व - देवतत्त्वं १ गुरुतम्वं २ धर्मतत्वं ३ चेत्यर्थः ।। ५६० ।। तु पुनः एकैकस्य तत्त्वस्य क्रमेण द्वौ त्रयश्वत्वारश्च भेदा ज्ञेयाः - देवतत्त्वस्य द्वौ भेदौ गुरुतत्त्वस्य त्रयो भेदाः धर्म्मतत्त्वस्य चत्वार इत्यर्थः, तत्र देवतत्त्वस्य द्वौ भेदौ अर्हन्तः १ सिद्धा २ || ५६१ || आचार्या १ उपाध्यायाः २ सुसाधवश्चैव एते त्रयो गुरुतत्त्वस्य भेदाः, तथा दर्शनं सम्यक्त्वं १ ज्ञानं - तत्वावबोधः २ चारित्र - विरतिरूपं ३ तपश्च- अनशनादि ४ एते धर्मतत्त्वस्य चत्वारो भेदाः || ५६२ ।। एतेषु नवपदेषु जिनशासनस्य सर्वस्वं - सर्वसारं अवतीर्ण अस्तीति शेषः, ततः - तस्मात् भो भो भन्या ! यूयं एतानि पदानि परमभक्त्या आ राधयत - सेवध्वम् ।। ५६३ ॥
For Private & Personal Use Only
www.jainelibrary.org