SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ सिरिसिद्धचक्कनवयमहलपढमिक्षपयमय जिणिंद । असुरिंदसुरिंदच्चियपयपंकय नाह ! तुज्झ नमो। सिरिरिसहेसरसामिय! कामियफलदाणकप्पतरुकप्प!।कंदप्पदप्पगंजण! भवभंजण देव! तुज्झ नमो। | सिरिनाभिनामकुलगरकुलकमलुल्लासपरमहंससम । असमतमतमतमोभरहरणिकपईव! तुज्झ नमो॥ श्रीसिद्धचक्रे यानि नव पदानि तेषु महत् यत्प्रथमं पदं तत्स्वरूपमस्येति श्रीसिद्धचक्रनवपदमहाप्रथमपदमयस्तत्सम्बुद्धी हे श्री० ! हे जिनेन्द्र ! पुन:-असुरेन्द्राः-चमरवल्याद्याः सुरेन्द्राः-सौधर्मशानादयः उपलक्षणानागेन्द्रादयोऽपि ग्राह्यास्तैरर्चिते| पूजिते पदपङ्कजे-चरणकमले यस्य तत्सं० हेऽसुरेन्द्रसुरेन्द्रार्चितपदपङ्कज ! हे नाथ ! तुभ्यं नमः ॥ ५४५ ॥ हे श्रीऋष- | भेश्वरस्वामिन् ! तथा कामितफलदाने-वाञ्छितफलप्रदाने कल्पतरुकल्पः-कल्पवृक्षतुल्यः तत्सम्बोधने हे कामितफलदानकल्पतरुकल्प! पुनः कन्दर्पस्य-कामस्य यो दर्पः-अभिमानस्तस्य गञ्जनो-मर्दकस्तत्सं० हे कंदर्पदर्पगंजन ! पुनः हे भवभञ्जन ! हे देव ! तुभ्यं नमः ।। ५४६ ॥ श्रीनाभिनामा यः कुलकरस्तस्य यत्कुलं तदेव कमलं तस्योल्लासे-विकासने परम:-प्रकृष्टो हंसः-सूर्यस्तत्समः-तत्तुल्यस्तत्सं० हे श्रीनाभि० पुनः न विद्यते समं-तुल्यं यस्य तत् असमं उत्कृष्टमित्यर्थः अतिशयेन असमं असमतमं इदृशं यत्तमः-अज्ञानं तदेव तमोभरः-अन्धकारमारभारस्तस्य हरणे एक:-अद्वितीयः प्रदीप: असम प्रदीपस्तत्सं० हे असम तुभ्यं नमः ॥ ५४७ ॥ Jain Education Intema For Private & Personel Use Only R ainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy