________________
कुमरो भइ भो भो ! पिहू पिहु गच्छेह जिणहरदुवारं । जेण फुडं जाणिज्जइ सो दारुग्घाडओ पुरिसो ॥ तो जंप परिवारो मा सामिय ! एरिसं समाइससु । किं सूरमंतरेणं पडिबोहइ कोवि कमलवणं ? ॥ ससिमंडलं विणा किं कुमुयवणुल्लासणं कुणइ कोवि ? । किंच वसंतेण विणा वणराई कोवि मंडेइ ? ॥ किं सहकारेण विणा उग्घाडइ कोवि कोइलाकंठं ? । ता देव! तं दुवारं तुमं विणा केण उग्घडइ ? ॥ तो कुमरो तुरयाई मोइत्ता विहियउत्तरासंगो । कयनिस्सीहीसदो सीहदुवारंमि पविसेइ ॥ ५४० ॥
तदा कुमारी भणति भो भो लोका ! जिनगृहद्वारं पृथक् पृथक् यूयं गच्छत, येन स्फुटं प्रकटं यथा स्यात्तथा सः द्वारोद्घाटकः पुरुषो ज्ञायते ।। ५३६ ।। ततः परिवारो जल्पति - हे स्वामिन् ! इदृशं मा समादिश- माऽनुजानीहि यतः सूरमन्वरेण - सूर्य विना किं कोऽपि कमलानां वनं प्रतिबोधयति - विकसितं करोति ?, नैवेत्यर्थः ॥ ५३७ ।। तथा शशिमण्डलंचन्द्रविम्बंविना किं कोऽपि कुमुदवनोल्लासनं करोति ? न करोतीत्यर्थः च पुनः वसन्तेन विना किं कोऽपि वनराजिं
श्रेणिमण्डयति ?, नैवेत्यर्थः ॥ ५३८ ॥ तथा सहकारेण - आत्रेण विना किं कोऽपि कोकिलायाः कण्ठं उद्घाटयति ? नकोsपीत्यर्थः, 'ता' इति ततः तस्मात् तजिनगृहस्य द्वारं त्वां विना केन उद्घटते ? न केनापीत्यर्थः ॥ ५३६ ॥ ततः कुमारस्तुरगादिकं मुक्त्वा विहितः - कृत उत्तरासङ्गो - देहोत्तरीयवस्त्रविन्यास विशेषो येन स तथा कृतो नैषेधिकीशब्दो येन स एवंविधः सन् सिंहद्वारे - चैत्यस्य प्रथमद्वारे प्रविशति ॥ ५४० ॥
Jain Educationational
For Private & Personal Use Only
www.jainelibrary.org