SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ अन्नदिणे विहिनिउणा सा नरवरनंदिणी लपरिवारा। कयविहिवित्थरप्या भावजुया वंदए देवे ॥ ताव नरिंदोवि तहिं पत्तो पूयाविहिं पलोयंतो । हरिलेण पुलइअंगो एवं चिंतेइ हिययमि ॥ अहो अपुव्वा पूया रइया एयाइ मज्झ धूयाए । अहो अपुव्वं च नियं विन्नाणं दंसियमिमीए ॥ एसा धन्ना कयपुन्निा जीए जिणिंदपूयाए। एरिसओ सुहभायो दीसइ सरलो असुहहावो ॥ अन्यस्मिन् दिने विधा-पूजाविधी निपुणा-चतुरा सा नरवरस्य नन्दिनी-पुत्री परिवारेण सह वर्तते इति सपरिवारा तथा विधेविस्तरो विधिविस्तरः कृता विधिविस्तरेण पूजा यया सा कृत० पुनर्भावेन युता एवंविधा सती देवान् वन्दते| देववन्दनं करोतीत्यर्थः ।। ४६६ ॥ तावन्नरेन्द्रोऽपि पूजाविधि प्रलोकयन्-प्रकर्षण विलोकयन् तत्र-जिनगृहे प्राप्तः विशिष्टपूजादर्शनात हर्षेण पुलकितं-रोमोद्गमयुक्तं अङ्गं यस्य स ईदृशः सन् हृदये एवं चिन्तयति ॥ ४६७॥ यथा राजा चिन्तयति तथाऽऽह-अहो इति आश्चर्येण एतया मम पुत्र्याऽपूर्वा पूजा रचिता, ईदृशी पूजा पूर्व कदापि न दृष्टेत्यर्थः, पुनरहो इति आश्चयेऽनया मत्पुच्याऽपूर्व निज-स्वकीयं विज्ञान-कलाकौशलं दर्शितम् ।। ४९८ ॥ एषा मत्पुत्री धन्या च पुनः कृतपुण्याऽस्ति कृतं पुण्यं यया सा, यस्था जिनेन्द्रपूजायां ईदृशः शुभभावो वर्तते, च पुनर्यस्याः सरल-ऋजुः सुष्टु-शोभनः स्वभावो दृश्यते ।। ४६६ ॥ Jain Education anal For Private & Personel Use Only www.jainelibrary.org
SR No.600130
Book TitleShripal Charitram
Original Sutra AuthorN/A
AuthorRatnashekharsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages3132
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy