________________
विविसिरि... वारंतस्सवि धवलस्स तस्स कुमरो समत्थपरिवारो। पत्तो महकालपुरं तोरणमंचाइकयसोहं ॥४६३॥ | वालकहा ।
। महकालो तं कुमरं भत्तीइ नियासणंमि ठावित्ता । पभणेइ इमं रज मह पाणावि हु तुहायचा ॥ ॥५४॥
। अन्नं च मज्झ पुत्ती पाणहितोऽवि वल्लहा अत्थि। नामेण मयणसेणा तं च तुमं पसिय परिणेसु॥
कुमरेणं भणियमहं विदेसिओ तह अनायकुलसीलो। तस्स कहं नियकन्ना दिजइ सम्मं विआरेसु?॥ | पभणेड महाकालो आयारेणावि तुह कुलं नायं न य कारणं विएलो कुणसु इमं पत्थणं सहलं॥
तस्य धवलस्य वारयतोऽपि सतः-एतावता वारयन्तमपि धवलमनादृत्येत्यर्थः समस्तः-सम्पूर्णः परिवारो यस्य स एवविधः कुमारो महाकालभूपस्य पुरं प्राप्तः, कीदृशं पुरं ?-तोरणमञ्चादिभिः कृता शोभा यस्य तत् तथोक्तम् ।।४६३।। अथ महाकालो नृपस्तं कुमारं भक्त्या निजासने स्थापयित्वा-उपवेश्य प्रकर्षण भणति-इदं राज्यं त्वदायत्तं-तवाधीनमस्ति, किं बहुना ?, हु इति निश्चितं मम प्राणा अपि त्वदायत्ताः-त्वदधीनाः सन्ति ॥४६४॥ अन्यच्च-प्राणेभ्योऽपि वल्लभा नाम्ना मदनसेना मम पुत्री अस्ति, तां च मम पुत्रीं त्वं प्रसद्य-प्रसन्नीभूय परिणयस्व ॥ ४६५ ॥ कुमारेण भणितं-अहं वैदेशिकस्तथाऽज्ञाते कुलशीले यस्य सोऽज्ञातकुलशीलोऽस्मि, तस्मै मह्यं निजकन्या कथं दीयते ?, सम्यग् विचारय ॥ ४६६ ॥ एवं कुमारणोक्ते सति महाकालः प्रभणति-अस्माभिस्तु आचारेणापि तव कुलं ज्ञातं, पुनस्त्वया स्वस्य वैदेशिकत्वमुक्तं तत्रोच्यतेन च विदेशः कारणं कन्यादाने इति शेषः, तस्मात् इमां प्रार्थनां सफलां कुरुष्व ।। ४६७ ॥
॥५४॥
Jain Education
a
l
For Private & Personel Use Only
www.jainelibrary.org