________________
सयमेव महाकालं बंधाओ मोइऊण सिरिपालो। निअभागपवहणाणं वत्थाईहिं तमच्चेइ ॥४५८॥ सव्वेवि हु ते सुहडा पहिरावेऊण पवरवत्थेहि। संतोसिऊण मुक्का कुमरेण विवेअवतेण ॥४५९॥ महकालोवि हु दट्टण तस्स कुमारस्स तारिसं चरिअं। चित्ते चमक्किओ तं अब्भत्थइ विणयवयणेहिं ॥ पुरिसुत्तम ! मह नयरं नियचरणेहिं तुम पवित्तहिं । अम्हेवि जेण तुम्हं नियत्तिं किंपि दंसेमो॥ कुमरो दक्खिन्ननिही जा मन्नइ ता पुणो धवलसिट्टी। वारेइ घणं कुमरं सव्वत्थवि संकिया पावा ॥
अथ श्रीपालः स्वयमेव महाकालं-राजानं बन्धनात मोचयित्वा निजभागप्रवहणानां वस्त्रादिभिः-तन्मध्यगतवस्त्राभरणादिकैस्तं-महाकालं नृपं अर्चति-सत्करोति ॥४५८॥ पुनर्विवेकवता कुमारेण ते सर्वेऽपि सुभटाः प्रवरवस्त्रैःपरिधाप्य सन्तोष्य मुक्ताः ॥ ४५ ॥ महाकालोऽपि नृपस्तस्य-कुमारस्य तादृशं चरितं-आचारं दृष्ट्वा चित्ते चमत्कृतः-चमत्कारं प्राप्तः सन् तं कुमारं विनययुक्तवचनैः अभ्यर्थयते-प्रार्थयते ॥ ४६० ॥ हे पुरुषोत्तम! त्वं निजचरणैर्मम नगरं पवित्रय-पवित्रीकुरु येन कारणेन वयमपि युष्मभ्यं कामपि निजभक्तिं दर्शयामः ॥४६॥ दाक्षिण्यं-परचित्तानुकूल्यं तस्य निधिः-निधानं कुमारो यावन्मन्यते नृपवचनमङ्गीकुरुते तावत्पुनः धवलश्रेष्ठी कुमारं घनं-प्रचुरं वारयति शत्रुगृहे सर्वथा न गन्तव्यं इत्यादिवाक्यैः, कथमित्यत्राह-यतः पापा:-दुष्टाः प्राणिनः सर्वत्रापि शङ्किताः स्युः ॥ ४६२ ॥
Jain Education
national
For Private & Personel Use Only
www.jainelibrary.org