________________
बालकहा
सिरिसिरि. मग्गंताणवि तेसिं लागं नो देश जाव सो सिट्ठी । ता तेहिं महाकालो वहाविओ बब्बराहिवई ॥
महाकालो भूरिवलो तत्थ गंतूण मग्गए लागं । सिट्ठी न देइ पद्धरपएहिं सुहडे पचारेइ ॥ ४३५॥ तो धवलभडा उभडसत्था सहसत्ति बब्बरभडेहिं । जुझंति जओ लोए मरंति पञ्चारिआ सुहडा॥ पढमं धवलभडेहिं भग्गं महकालभडबलं सयलं । तो महकालनिवेणं उट्ठवि सबलतुरएणं ॥
मार्गयता-यानमानानामपि तेषां राजपुरुषाणां यावत् स श्रेष्ठी लागं न ददाति तावत तैः पुरुषैर्महाकालो नाम बर्बराधिपतिः-बर्बरकूलस्वामी अवधावितः तत्र गमनार्थ प्रेरित इत्यर्थः ॥४३४॥ ततो भूरि-प्रचुरं बलं-सैन्यं यस्य स एवंविधो महाकालो राजा तत्र-बिन्दरे आगत्य लागं मार्गयति, परं धवलः श्रेष्ठी न ददाति, किन्तु प्रधरपदैः सुभटान् प्रचारयतियुद्धार्थ प्रेरयति ॥४३॥ ततः-तदनन्तरं उद्भटानि-भयजनकानि शस्त्राणि येषां ते एवंविधा धवलभटाः सहसा इति-सद्यस्तत्क्षणमित्यर्थः बर्बरराजस्य भटैः सह युद्ध्यन्ते-युद्धं कुर्वन्ति, यतो-यस्मात्कारणात् लोके सुभटाः प्रचारिताः-पौरुषोत्पादकवचनैः प्रेरिताः सन्तो म्रियन्ते, स्वस्वामिनोऽग्रे प्राणान् त्यजन्तीत्यर्थः॥ ४३६ ॥ तदा प्रथमं धवलस्य भटैः सकलंसमस्तं महाकालराजस्य भटानां बलं-सैन्यं भग्नं, ततः-तदनन्तरं महाकालनृपेण सबलो-बलवान् तुरगः-अश्वो यस्य स तेन अश्वरत्नारूढेन सता उत्थितं स्वयं युद्धाय गम्यते स्मेत्यर्थः ॥ ४३७ ।।
Jain Education Indiana
For Private & Personel Use Only
www.jainelibrary.org