________________
Jain Education Intert
सोऊण कुमरहक्क सहसा सा खुद्ददेवया नट्टा । चलियाई पवहणाई वद्धावणयं च संजायं ॥ ४११ ॥ वज्जंति भेरिभुंगलपमुहाउज्जाई गहिरसहाई । नञ्चंति नहियाओ महुरं गिज्जति गीआई ॥ ४९२ ॥ तं अच्छरिअं दद्धुं धवलो चिंतेइ एस जइ होइ। अम्ह सहाओ कहमवि ता विग्धं होइन कयावि ॥ ४१३॥ इअ चिंतिऊण धवलो तं दीणाराण सय सदस्सं चा दाऊण विणयपणओ भणेइ भो भो महाभाग ! ॥ ४१४॥ दणारसह सइक्विक्कमित्तयं वरिसजीवणं दाउं । संगहिया संति मए दससहस भडा ससोंडीरा ॥४१५॥
कुमारस्य हक्कां श्रुत्वा सहसा अकस्मात् सा क्षुद्रदेवता- दुष्टदेवी नष्टा- पलायिता प्रवहणानि चलितानि च पुनर्वर्द्धापनक सज्जातम् || ४११ ॥ तथा भेरीभृङ्गलप्रमुखाणि - दुन्दुभिप्रभृतीनि श्रतोद्यानि - वादित्राणि वाद्यन्ते, कीदृशानि :- गम्भीरशव्दानि तथा नर्त्तक्य:- स्त्रियो नृत्यन्ति, मधुरंयथा स्यात्तथा गीतानि गीयन्ते || ४१२|| तत् आश्चर्यं दृष्ट्वा धवलश्चिन्तयति -
पुमान् कथमपि - केनापि प्रकारेण अस्माकं सहायो भवति तत्तदा कदापि कस्मिन्नपि काले विघ्नं न भवति ॥ ४१३ ॥ इति श्रमुना प्रकारेण चिन्तयित्वा धवलो दीनाराणां शतसहस्रं लक्षं च कुमाराय दत्वा विनयेन प्रणतो- नम्रीभूतः सन् तं कुमारं भणति - भो भो महाभाग ! हे महाभाग्यवान् ॥ ४१४ ॥ एकैकदीनारसहस्रमात्रं वर्षस्य जीवनं आजीविकां दत्त्वा मया शौण्डीर्येण - पराक्रमेण सह वर्त्तमानाः सशौएडीर्या दशसहस्रभट्टाः सङ्गृहीताः सन्ति ॥ ४१५ ॥
For Private & Personal Use Only
www.jainelibrary.org