________________
श्राद्धनति०सूत्रम्
॥११९॥
वल्लीविशेषः २३ मूलकः प्रसिद्धः कन्दः, तस्य त्याज्यत्वं महाभारतादावप्यवादि-"रसोनं गृञ्जनं चैव, पलाण्डुः २०गाथा| पिण्डमूलकम् । मत्स्यमांसं सुरा चैव, मूलकस्तु ततोऽधिकः ॥१॥ पुत्रमांसं वरं भुक्तं, न तु मूलकभक्षणम् ।। यां अभभक्षणान्नरकं गच्छेद्वर्जनात्वर्गमाप्नुयात् ॥ २॥” २४, भूमिहाणि-छत्राकाराणि वर्षाकालभावीनि भूमिस्फोट- क्ष्यविचारः कानीति प्रसिद्धानि २५, विरूढानि-अङ्करितानि द्विदलधान्यानि २६, टङ्कवास्तुल:-शाकविशेषः, स च प्रथमोद्त एवान्तकायिको न तु छिन्नप्ररूढः २७, शूकरसज्ञितो वल्लः शूकरवल्लः स एवानन्तकायिको म तु धान्यवल्लः २८, पहयङ्कः शाकभेदः २९, कोमलाम्लिका-अबद्धास्थिका चिश्चिणिका ३०, आलुक ३१ पिण्डालुको कन्दभेदौ ३२, न चैत एवानन्तकायाः किन्तु "गूढसिरसंधिपवं समभंगमहीरगं च छिन्नरुहं । साहारणं सरीरं तविवरीअंच पत्तेअं॥१॥” इत्यादिसिद्धान्तोक्ततल्लक्षणयुक्ता अन्येऽपि ज्ञेया हेयाश्च, यत:-"चत्वारो नरकद्वाराः, प्रथमं रात्रिभोजनम् । परस्त्रीगमनं चैव, सन्धानानन्तकायिके ॥१॥” अनन्तकायाद्यभक्ष्यं चाऽचित्तभूतमपि परिहार्यम् , अथाकादेः स्वयं परेणाचित्तीकृतस्य ग्रहणे को दोषः?, उच्यते, निःशूकतालौल्यवृद्धयादिः | परम्परया सचित्ततद्वहणप्रसङ्गवृद्ध्यादिश्च, यथोक्तम्-"इक्केण कयमकजं करेइ तप्पच्चया पुणो अन्नो । सायाबहुलपरम्परवुच्छेओ संजमतवाणं ॥१॥” इति द्वात्रिंशदनन्तकायखरूपम् ॥ एते चाभक्ष्यानन्तकायाः सूत्रगा
॥११९॥ थायां चशब्दसूचिता उपयोगित्वात्किञ्चिद्विवृताः, सम्प्रति सूत्रगाथाऽग्रतो व्याख्यायते-"पुप्फे अ फले 'त्ति वर्जनीय पुष्पादीनि बहुविषयत्वात् सूत्रकारः साक्षादपि दर्शयति, तत्र पुष्पाणि चशब्दात्पत्रमूलादीनि फलानि
Jain Education
a
al
For Private Personel Use Only
ainelibrary.org