SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ हरितभोजनया तेषां च सङ्घटनादिदातग्रामकगतं ज्ञेयमिति । तथा पश्चादानानन्तरं कर्म जलोज्झनादि यस्यां पुरःकर्म यस्यामादाविति अदृष्टाहृतया अदृष्टोत्क्षेपनिक्षेपमानीय या दत्ता तयेत्यर्थः तत्र च सत्त्वसङ्घटनादिनातिचारः उदकसंसृष्टाहृतया उदकसंबद्धानीतया एवं रजःसंसृष्टाहतया परिशातनमुज्झनलक्षणं तस्मिन् भवा पारिशातनिकी तया परिष्ठापनं प्रदानभाजनगतद्रव्यान्तरोज्झनलक्षणं तस्मिन् निर्वृत्ता पारिष्ठापनिकी तया “ उहासणभिरकाएत्ति " विशिष्टद्रव्ययाचनं समयपरिभाषया उहासणत्ति भन्नइ तत्पधाना भिक्षा तयार कियदत्र भणिष्यामो भेदानामेवंप्रकाराणां बहुत्वात्ते च सर्वेपि यस्मादुद्गमोत्पादनैषणास्ववतरन्त्यत आह-“ जं उग्गमेणमित्यादि "|| यत्किंचिदशनादि उद्गमेनाधाकादिना उत्पादनया धान्यादिलक्षणया एषणयाशंकितादिलक्षणया अपरिशुद्ध अयुक्तियुक्तं प्रतिगृहीतं । परिभुक्तं वा यन्न परिष्ठापितं कथञ्चित्पतिगृहीतमपि यदपुनः करणादिना नोज्झितं एवमनेन प्रकारेण यो जातोऽतिचारस्तस्य मिथ्यादुष्कृतं पूर्ववत् एवं गोचरातिचारप्रतिक्रमणमभिधाय स्वाध्यायायतिचारप्रतिक्रमणप्रतिपादनायाह “पडिकमामि चाउकालं सज्झायस्सेत्यादि यावत्तस्स मिच्छामि दुक्कडं " अस्य व्याख्या प्रतिक्रामामि पूर्ववत् कस्य चतुष्कालं दिवसरजनिप्रथमचरमपहरेष्वित्यर्थः स्वाध्यायस्य सूत्रपौरुषीलक्षणस्याकरणतया अनासेवनया योऽतिचारः कृतस्तस्येति योगः तथोभयकालं प्रथमपश्चिमपौरुषीलक्षणं भाण्डोपकरणस्य पात्रवस्त्रादेप्रत्युपेक्षणयानिरीक्षणया दुःप्रत्युपेक्षणया दुर्निरीक्षणलक्षणया तथा अप्रमार्जनया दुःप्रमार्जनया तथातिक्रमे व्यतिक्रमे अतिचारेऽनाचारे यो मया दैवसिकोऽतिचारः कृतस्तस्य मिथ्या दुष्कृतामिति एतत्माग्वत् नवरमतिक्रमादीनां स्वरूपमिदं यथा आधाकर्मनिमन्त्रणे कृते सति तत्पतिश्रवणे प्रथमः तदर्थ गच्छतो द्वितीयः तत्र गृहीते तृतीयः भोजनार्थ कवलग्रहणे सति चतुर्थः। साम्पतमेकविधादिभेदेन प्रतिक्रमण प्रतिपादनायाह "प-IN डिकमामि एगविहे असञ्जमेत्यादि " प्रतिक्रामामि पूर्ववत् एकविधे एकप्रकारे असंयमे अविरतिलक्षणे योऽतिचारः कृत इति गम्यते तस्य Jain Education For Private & Personel Use Only jainelibrary.org
SR No.600128
Book TitleShraman Pratikraman Sutravrutti
Original Sutra AuthorPurvacharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages38
LanguageSanskrit
ClassificationManuscript
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy