________________
श्रेष्ठिदेवचंद्रलालभाई-जैनपुस्तकोद्धार-ग्रन्थांके---
विचाररत्नाकरस्योपोद्घातः । ऐं नमः । पारमेश्वर्यप्रवचने महर्षिभिः श्रुतसागरादनेके ग्रन्थरत्नाः समुध्धृताः सन्ति । तत्रायमध्येकोऽतिगहनो विपुलतरङ्गलोलश्च नानाविधविषयविचाररत्नपरिपूर्णो विचाररत्नाकराभिधानश्चिराजयति । अस्य ग्रन्थस्य के विधातारः कदा च संजाताः इति जिज्ञासायामकब्बरभूपतिप्रतिबोधकश्रीमद्विजयहीरसूरीश्वरपादैर्न कोऽप्यज्ञो भविष्यति, तेषां शिष्यरत्नैः सुगृहीतनामधेयैर्महामहोपाध्यायश्रीमकीर्तिविजयगणिमिनिमितोऽयं ग्रन्थः । तेषां समयस्तु सुप्रसिद्ध एव । ग्रन्थरचना तु श्रीमद्विजयहीरसूरीशपट्टप्रभावकश्रीमद्विजयसेनसूरीशपट्टालङ्कारश्रीमद्विजयतिलकसूरींद्रपट्टप्रतिष्ठित-श्रीमद्विजयानन्दसूरिशेखराणां साम्राज्ये नवत्यधिकषोडशशताब्दे समभवत् , तेषामेव सूरीश्वराणामादेशादयं प्रन्थः श्रुतसागरात् समुध्धृतः। उपाध्यायदेवविजयगणिभिः संशोधितो लोकप्रकाशाद्यनेकपन्थनिर्मातप्रस्तुतग्रन्थकृच्छिष्यरत्नवाचकवरविनयविजयगणिभिश्च संशोधितः प्रथमादर्शः लिखितश्च । तदुक्तम्
तदनुमनुजमान्योऽनन्यसामान्यभाग्य-त्रिभुवनगुरुपट्टे सूरिशको बभूव । विजयिविजयसेनः फेनपिण्डावदातः, प्रसृमरवरकीर्तिम॒र्तिमान पुण्यराशिः ॥ १८ ॥ येनात्युन्मदवादिवृन्दहृदयक्ष्मापीठजन्मा महान् , गर्वक्षोणिरुहः क्षणादपि तथा निर्मूलमुन्मूलितः ।। भूपाकब्बरसंसदि स्ववचनैयुक्तिप्रथापेशलै-उद्यद्वन्धुरसिन्धुरोध्धुरकरैरम्भोजमाला यथा ॥ १६ ॥
Jain Education Intern
For Private 8 Personal Use Only
Haljainelibrary.org