________________
समानाधिकरणतः सूत्रमुक्तम् । अथ तयोः कथञ्चिङ्गेदोऽप्यस्तीति दर्शयितुं पूर्वोक्तमेवार्थ व्यधिकरणत आह-आरंभे' | इत्यादि, प्रारम्भे अधिकरणभूते वर्त्तते जीवः, एवं संरम्भे समारम्भे च । अनन्तरोक्तवाक्यार्थद्वयानुवादेन प्रकृतयोजनामाह
आरम्भमाणः संरम्भमाणः समारम्भमाणो जीवः, इत्यनेन प्रथमो वाक्यार्थोऽनूदितः। प्रारम्भे वर्तमाने, इत्यादिना तु द्वितीयः, | 'दुक्खावणताए' इत्यादौ ताशब्दस्य प्राकृतप्रभवत्वात् दुःखापनायां-मरवलक्षणदुःखप्रापणायाम् , अथवा इष्टवियोगादि
दुःखहेतुप्रापणायां वर्त्तते, इति योगः। तथा शोकापनायां-दैन्यप्रापणायां 'जरावणताए' ति शोकार्तिरेकाच्छरीरजीर्णताA प्रापणायां ' तिप्पावणताए' ति तेपापनायां 'तेपृष्ठेप चरणार्थे' इति वचनात् , शोकातिरेकादेवाश्रुलालादिचरणप्रापणायां,
'पिट्टावणयाए ' ति पिट्टनप्रापणायां ततश्च परितापनायां शरीरसन्तापे वर्त्तते, कचित्पठ्यते 'दुक्खावणयाए' इत्यादि तच्च व्यक्तमेव, यच्च तत्र 'किलामणयाए उद्दावणयाए । इत्यधिकमभिधीयते । तत्र 'किलामणयाए' ति ग्लानिनयने, 'उद्दावणयाए' त्ति उपासने, उक्तार्थविपर्ययमाह-'जीवेणं' इत्यादि, ‘णो एयइ' ति शैलेशीकरणे योगनिरोधामो एजते, इति । एजनादिरहितस्तु नारम्भादिषु वर्तते । तथा च न प्राणादीनां दुःखापनोदिषु तथा च योगनिरोधाभिधानशुक्लध्यानेन सकलकर्मध्वंसरूपान्तक्रिया भवति । इति श्रीभगवतीसूत्रवृत्तौ तृतीयशतके तृतीयचमराख्योद्देशके ४८७ प्रतौ १०२।१०३ पत्रे ॥७॥
इत्थं च केवलिशरीराजीवविराधनाऽङ्गीकारे कथं तस्याष्टादशदोषरहितत्वमित्यादिका या तवोक्तिः सा तु अत्यन्तमसमीचीना । एवं चोभयमतसम्मते सुसाधुशरीराजीवविराधनास्वीकारे तस्य साधोश्चतुर्महाबतित्वं वदतोऽपि ते मुखरस्य किमयुक्तं स्यात्, इति त्यज्यतामयं कठिनो हठः, इति ।
Jain Education entina
For Private & Personal Use Only
www.jainelibrary.org