________________
विचार-
रत्नाकरः
स्यात् , तुल्यं चेष्यते तदिति, चत्वारि चतसृष्वपि दिक्षु द्वे ऊर्ध्वाध इत्येवं षट्तलानि यत्र तत्पद्तलम् , अध उपरि पार्श्वतश्च प्रत्येकं चतसृणामस्रीणां भावाद्वादशास्रयः-कोव्यो यत्र तबादशास्रिकम् , कर्णिकाः-कोणास्तेषां चाध उपरि च प्रत्येकं चतुर्णा सद्भावादष्टकर्णिकम् , अधिकरणिः-सुवर्णकारोपकरणं तत्संस्थानेन संस्थितं-तत्सदृशाकारं समचतुरस्रमिति यावत्प्रज्ञप्तं-प्ररूपितम् , तस्य-काकिणीरत्नस्यैकैका कोटिरुत्सेधाङ्गुलप्रमाणविष्कम्भा द्वादशाप्यत्रय एकैकस्य उत्सेधाङ्गुलप्रमाणा भवन्तीत्यर्थः, अस्य समचतुरस्त्रत्वादायामो विष्कम्भश्च प्रत्येकमुत्सेधाङ्गुलप्रमाण इत्युक्तं भवति, यैव च कोटिरूर्वीकृता आयाम प्रतिपद्यते सैव तिर्यक् व्यवस्थापिता विष्कम्भभाग् भवतीत्यायामविष्कम्भयोरेकतरनिर्णयेऽप्यपरनिश्चयः स्यादेवेति सूत्रे विष्कम्भस्यैव ग्रहणम् , तद्हणे चायामोऽपि गृहीत एव, समचतुरस्रत्वात्तस्येति, तदेवं सर्वत उत्सेधाङ्गुलप्रमाणमिदं सिद्धम् । यच्चान्यत्र 'चउरंगुलप्पमाणा सुवामवरकागिणी नेयेति श्रूयते तन्मतान्तरं सम्भाव्यते, निश्चयं तु सर्ववेदिनो विदन्तीति । तदेकैककोटिगतमुत्सेधाङ्गुलं श्रमणस्य भगवतो महावीरस्यााङ्गुलम् , कथमिदम् ? उच्यते-श्रीमहावीरस्य सप्तहस्तप्रमाणत्वादेकैकस्य च हस्तस्य चतुर्विंशत्युत्सेधाङ्गुलमानत्वादष्टषष्ठ्यधिकशताकुलमानो भगवानुत्सेधाङ्गुलेन सिद्धो भवति, स एव चात्माङ्गुलेन मतान्तरमाश्रित्य स्वहस्तेन सार्द्धहस्तत्रयमानत्वाचतुरशीत्यगुलमानो गीयते, अत: सामर्थ्यादेकमुत्सेधाङ्गुलं श्रीमन्महावीरात्माङ्गुलापेक्षयाऽद्धाङ्गुलमेव भवति, येषां तु मतेन भगवानात्माङ्गलेनाष्टोत्तरशताङ्गुलमानः स्वहस्तेन सार्द्धहस्तचतुष्टयमानत्वात्तन्मतेन भगवत एकस्मिन्नात्माङ्गुले एकमुत्सेधाङ्गुलं तस्य पश्च नवभागा भवन्ति १३ अष्टषष्ठ्यधिकशतस्याष्टोत्तरशतेन भागापहारे एतावत एव भावात् , यन्मतेन तु भगवान् विंशत्य
॥११
Jain Education Intelona
For Private & Personel Use Only
w
ww.jainelibrary.org