SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ विचार ॥ ६६ ॥ Jain Education Intent स्थूलवस्तु व्यवहिततया दूरस्थिततया वा नादर्शादिष्ववगाढरश्मिर्भवति, ततो न तत्र तत् दृश्यते तस्मादवसीयते सन्ति छायाः पुद्गला इति, ते च छायादृद्गलास्तत्तत्सामग्रीवशाद्विचित्र परिणमनस्वभावाः, तथा हि- ते च छायापुद्गला दिवा वस्तुन्यभास्वरे प्रतिगताः सन्तः स्वसम्बन्धिद्रव्याकारमाविभ्राणाः श्यामरूपतया परिणमन्ते निशि तु कृष्णाभाः, एतच्च प्रसरति दि सूर्यरनिकरे निशितु चन्द्रोद्योते प्रत्यक्षत एवं सिद्धम् त एव छायापरमाणव श्रादर्शादि भारवरद्रव्यप्रतिगताः सन्तः स्वसम्बन्धिद्रव्याकारमादधाना यादृग्वर्णः स्वसम्बन्धिनि द्रव्ये कृष्णो नीलः सितः पीतो वा तदाभाः परिणमन्ते, एतदप्यादर्शादिष्वध्यक्षतः सिद्धम्, ततोऽधिकृतसूत्रेऽपि ये मनुष्यस्य छायापरमाणव आदर्शमुपसङ्गम्य स्वदेहवर्णतया स्वदेहाकारतया च परिणमन्ते, तेषां तत्रोपलब्धिर्न शरीरस्य, ते च प्रतिविग्धशब्दवाच्याः, अत उक्तं न शरीरं पश्यति किं तु प्रतिभागमिति, न चैतत्स्वमनीषिकाविजृम्भितम्, यत उक्तमागमे – “सामा उ दिया छाया, अभासुरगता निसिं तु कालाभा । सा चैव भासुरगया, सदेहवा मुख्यच्वा ।। १ ।। जे श्रादरिसस्सन्तो. देहावयवा हवंति संकंता । तेसिं सत्थुवलद्धी, पगासजोगा न इयरेसिं ॥ २ ॥ " मूलटीकाकारोऽप्याह -- " यस्मात्सर्वमेव हि ऐन्द्रियकं स्थूलं द्रव्यं चयापचयधर्मकं रश्मिवच्च भवति, यतश्चादशदिषु छाया स्थूलस्य दृश्यतेऽवगाढरश्मिनः न चानवगाढरश्मिनः, ततः स्थूलद्रव्यस्य कस्यचिद्दर्शनं भवति न चान्तरितं दृश्यते किञ्चित् श्रतिदूरस्थं वा, अतः 'पलिभागं' प्रतिभागं पेहति' पश्यतीति" । एवमसिम एयादिविषयाण्याप पट् (सप्त ) सूत्राणि भावनीयानि । सूत्रपाठोऽप्येवम् " असं पेहमाणे मरणूसे किं असं पेहर अत्ताणं पेहड़ पलिभागं पेहर ? गोयमा ! नो असिं des नो अप्पा पेहर पलिभागं पेहइ । " इत्यादि । इति श्री प्रज्ञापनापञ्चदशपदसूत्रवृत्तौ प्रथमोद्देश ४०० प्रतौ ॥ ७ ॥ For Private & Personal Use Only रत्नाकरः ॥ ६६ ॥ www.jainelibrary.org
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy