________________
विचार
॥ ८७ ॥
Jain Education Inter
पेहि अमाणा २ एवं समणुचितिजमाणार एएस चैव दोसु काएस समोयरंति । तं जहा-तसकाए चेव, थावरकाए चेव, एवामेव सपुव्वावरेणं श्रजीवियदितेयं चउरासीति जातिकुलकोडीजोगीपमुहसत सहस्सा भवतीति मक्खाया ॥ इति । वृत्तियथा--' तेसि णं' इत्यादि, तेषां भदंत ! जीवानां कति किं प्रमाणानि जातिकुलकोटीनां योनिप्रमुखाणि - योनिप्रवाहाणि शतसहस्राणि योनिप्रमुखशतसहस्राणि जातिकुल कोटियोनिप्रमुखशतसहस्राणि भवन्ति । भगवानाह - द्वादश जातिकुलकोटियोनिप्रमुखशतसहस्राणि प्रज्ञप्तानि, तत्र जातिकुलयोनीनामिदं परिस्थूरमुदाहरणं पूर्वाचार्यैरुपदर्शितम् - जातिरिति किल तिर्यग्जातिः तस्याः कुलानि - कृमिकीटवृश्चिकादीनि, इमानि च कुलानि योनिप्रमुखाणि तथा हि-एकस्यामेव योनौ अनेकानि कुलानि भवन्ति, तथा हि-छगण योनौ कृमिकुलं, कीटकुलं, वृश्चिककुलमित्यादि, अथवा जातिकुलमित्येकं पदम् जातिकुलयोन्योश्च परस्परं विशेषः एकस्यामेव योनावनेकजातिकुलसम्भवात्, तद्यथा - एकस्यामेव छगणयोनौ कृमिजातिकुलं कीटजातिकुलं वृश्चिकजातिकुलमित्यादि, एवमेकस्यामेव योनाववान्तरजाति भेदभावादनेकानि योनिप्रवाहाणि जातिकुलानि सम्भवन्तीति उत्पद्यन्ते खचरपञ्चेन्द्रियतिर्यग्योनिजानां द्वादश जातिकुल कोटिशतसहस्राणि श्रत्र सङ्ग्रहणीगाथा - " जोगीसंगइलेस्सा, दिट्ठी नाणे य जोग उवओगे । उववाय ठिई समुग्धाय चवण जाई कुलविहीओ " ॥ अस्या अक्षरगमनिका - प्रथमं योनिसङ्घहद्वारं, ततो लेश्याद्वारं, ततो दृष्टिद्वारमित्यादि । ' भुयगाणं भंते !' इत्यादि, भुजगानां भदंत ! कतिविधो योनिसङ्ग्रहः प्रज्ञप्तः १ इत्यादि पक्षिवत्सर्वं निरवशेषं वक्तव्यम्, नवरं स्थितिच्यवनकुलकोटिषु नानात्वं, तद्यथा-- स्थितिर्जघन्येनान्तर्मुहू, उत्कर्षतः पूर्वकोटी, च्यवनं उद्वर्त्तना, तत्र नरकगतिचिन्तायामधो यावद्वितीया पृथिवी, उपरि यावत्सहखारकल्पस्ता
For Private & Personal Use Only
रत्नाकरः
॥ ८७ ॥
www.jainelibrary.org