________________
'तए णं से' इत्यादि, 'जाव पडिसुणेत्ता' इति, अत्र यावच्छब्दकरणात् 'करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिंकटु [एवं देवो तहत्ति आणाए विणएणं वयणं पडिसुणेति] ' इति द्रष्टव्यम् । ‘तिक्खुत्तो उल्लालेइ' त्ति त्रिःकृत्वा-त्रीन वारान् उल्लालयति-ताडयति । ततो 'ण'मिति वाक्यालङ्कारे तस्या-मेघौधरसितगम्भीरमधुरशब्दायां योजनपरिमण्डलायां सुस्वराभिधानायां घण्टायां त्रिकृत्वस्ताडितायां सत्यां यत्सूर्याभविमानं तत्प्रासादनिष्कुटेषु च ये आपतिताः शब्दाः-शब्दवर्गणापुद्गलास्तेभ्यः समुच्छलितानि यानि घण्टाप्रतिश्रुतशतसहस्राणि घण्टाप्रतिशब्दलक्षाणि तैः सङ्कलमपि जातमभूत् किमुक्तं भवति ? घण्टायां महता प्रयत्नेन ताडितायां ये विनिर्गताः शब्दपुद्गलास्तत्प्रतिघातवशतः सर्वासु दिक्षु विदिक्षु च दिव्यानुभावतः समुच्छलितैः प्रतिशब्दैः सकलमपि विमानमनेकयोजनलक्षमानमपि बधिरितमुपजायते इति । एतेन द्वादशभ्यो योजनेभ्यः समागतः शब्दः श्रोत्रग्राह्यो भवति न परतः, ततः कथमेकत्र ताडितायां घण्टायां सर्वत्र तच्छब्द श्रुतिरुपजायत इति यच्चोच्यते तदपाकृतमवसेयम्, सर्वत्र दिव्यानुभावतस्तथारूपप्रतिशब्दोच्छलने यथोक्तदोपासंभवात् । इति श्री राजप्रश्नीयोपाङ्गवृत्ति ८६ प्रती २२ पत्रे ॥३॥
अथ जिनप्रतिमासत्ताक्षराणि लिख्यन्ते
तीसे णं मणिपेढियाए उवरिं इत्थ णं महेगे देवच्छंदए पत्ते सोलसजोयणाई आयामविक्खंभेणं साइरेगाई सोलसA जोयणाई उड्ड उच्चत्तेणं सवरयणामए जाव पडिरूवे एत्थ णं अट्ठसयं जिणपडिमाणं जिणुस्सेहप्पमाणमेत्ताणं सन्निक्खित्तं
संचिट्ठइ' इति । वृत्तिर्यथा-'तीसे णं' इत्यादि तस्याश्च मणिपीठिकाया उपरि, अत्र महानेको देवच्छन्दकः प्रज्ञप्तः। स
Jan Education Inter!
For Private Personal use only
orary.org