SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ स तथा तेन 'अप्पतरोवा भुजतरो वा कालं'ति प्राकृतत्वेन विभक्तिपरिणामादल्पतरं वा भूयस्तरं वा कालं यावत् 'अन्नतरसुत्ति बहुना मध्ये एकतरेषु 'वाणमंतरेसु' ति व्यन्तरेषु देवलोकेषु-देवजनेषु मध्ये, 'तहिं तेसिं गइ 'त्ति तस्मिन् वानमन्तरे देवलोके तेषामसंयतादिविशेषणजीवानां गतिः-गमनं, 'ठिइ'त्ति अवस्थानं, 'उववाओ' त्ति देवतया भवनं, 'इडी इव' ति | ऋद्धिः परिवारादिसंपत् । 'जुती इव' ति द्युतिः-शरीराभरणादिदीप्तिः, इशब्दो निपातो वाक्यालङ्कारार्थः, इतिशब्दो वाऽयं कृतसन्धिप्रयोगउपदर्शनार्थः । 'जसे इव' ति यशःख्यातिः । वा शब्दो विकल्पार्थः, कचित्पठ्यते-' उट्ठाणे इ वा कम्मे इव' ति । तत्रोत्थान-उर्दीभवनं, कर्म-उत्क्षेपणादिका क्रिया, 'बले इव' तिवलं-शारीरः प्राणः, 'वीरिए इ वत्ति वीर्य-जीवप्रभवः प्राण एव 'पुरिसक्कारपरक्कमे इ व 'त्ति पुरुषकारः पुरुषत्वाभिमानः स एव निष्पादितफलः पराक्रमः, हते ति' एवमेवार्थः, 'तेणं देवा परलोगस्स आराहग' त्ति ते अकामनिर्जरालब्धदेवभवा व्यन्तराः परलोकस्य-जन्मान्तरस्य निर्वाणसाधनानुकूलस्याराधकाः-निष्पादकाः इति प्रश्नः, नो इणढे' त्ति नायमर्थः 'समढे 'त्ति समर्थः-सङ्गतः इत्युत्तरम् , अयमभिप्रायः-ये हि सम्यग्दर्शनज्ञानपूर्वकानुष्ठानतो देवाः स्युः त एव अवश्यतया आनन्तर्येण पारम्पर्येण वा निर्वाणानु| कूलं भवान्तरमावर्जयन्ति, तदन्ये तु भाज्याः । इत्यौपपातिकसूत्रवृत्तौ ७० प्रतौ ६२ पत्रे ॥१॥ पुनरपि जिनप्रतिमारिपुप्रतिबोधाय अम्मडेन यथा अन्यतीर्थिकदेवान्यतार्थिकपरिगृहीहित्प्रतिमानिषेधपूर्वकमहत्प्रतिमावन्दनाद्यङ्गीकृतं, तथा लिख्यते "अम्मडस्स णो कप्पइ अन्नउत्थिया वा अन्नउत्थियदेवयाणि वा अनउत्थियपरिग्गहियाणि अरिहंतचेइयाणि वा For Private Personal Use Only www.jainelibrary.org Jain Education
SR No.600127
Book TitleVichar Ratnakar
Original Sutra AuthorN/A
AuthorKirtivijay, Dansuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages416
LanguageSanskrit
ClassificationManuscript
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy