________________
N
ग्राह्यमिति । 'भासरासिवन्नामे'त्ति भस्मराशीवर्णामम् । ततश्च किमित्याह-'जया ण 'मित्यादि 'पागच्छमाणे वत्ति गत्वा अतिचारेण ततः प्रतिनिवर्तमानः कृष्णवर्णादिना विमानेनेति शेषः ‘गच्छमाणे वत्ति स्वभावचारेण चरन्, एतेन च पदद्वयेन स्वाभाविकी गतिरुक्ता । 'विउव्वमाणे वत्ति विकुर्वणां कुर्वन् , 'परियारेमाणे वत्ति परिचारयन्-कामक्रीडां कुर्वन् , एतस्मिन् द्वये अतित्वरया प्रवर्त्तमानो विसंस्थुलचेष्टया स्वविमानमसमजसं चलयति, एतच्च द्वयमस्वाभाविकविमानगतिग्रहणायोक्तमिति । 'चंदलेस्सं पुरच्छिमेणं अवरेत्ता णं'ति स्वविमानेन चन्द्रविमानावरणे चन्द्रदीप्तेरावृतत्वाच्चन्द्रलेश्यां पुरस्तादावृत्य 'पञ्चच्छिमेणं वाईवयइ' ति चन्द्रापेक्षयाऽपरेण यातीत्यर्थः । पुरच्छिमेणं चंदे उवदंसेइ पञ्चच्छिमेणं राहु त्ति राहपेक्षया पूर्वस्यां दिशि चन्द्र आत्मानमुपदर्शयति, चन्द्रापेक्षया च पश्चिमायां राहुरात्मानमुपदर्शयतीत्यर्थः। एवंविधस्वभावतायां च राहोश्चन्द्रस्य यद्भवति तदाह-'जया णं' इत्यादि 'आवरेमाणे' इत्यत्र द्विर्वचनं तिष्ठतीति क्रियाविशेषणत्वात् । 'चंदेणं राहुस्स कुच्छी भिन्ना'त्ति राहोरंशस्य मध्येन चन्द्रो गतः इति वाच्ये चन्द्रेण राहोः कुक्षिभिन्न इति व्यपदिशन्तीति। 'पच्चोसकइ 'त्ति प्रत्यवसर्पति व्यावर्त्तते। 'वंते 'त्ति वान्तः-परित्यक्तः। 'सपक्खि सपडिदिसि ति सपक्ष-समानदिन यथा भवति सप्रतिदिक्-समानविदिक् च यथा भवतीत्येवंचन्द्रलेश्यामावृत्यावष्टभ्य तिष्ठतीत्येवं योगः।अत आवरणमात्रमेवेदं वैस्रसिकं चन्द्रस्य राहुणा ग्रसनं, न तु कार्मणम् । इति श्रीभगवतीद्वादशशतकषष्ठोद्देशके ८० प्रतौ ३६५ । ३६६ पत्रे ॥११॥
केचिद्वदन्ति स्वल्पपरिमाणभूगोलं परितोऽरघट्टघटीन्यायेन भ्राम्यन्तौ सूर्याचन्द्रमसौ महत्परिमाणौ यथाक्रमं चार चरतः, ततश्च सूर्यकान्तयः स्फटिकमये चन्द्रे प्रतिबिंबिता भवन्ति, ता एव च ज्योत्स्नाः , तथा च प्रतिपदि द्वितीयायां
JainEducationp
ationa
For Private
Personal Use Only