________________
॥ श्रीजिनाय नमः ॥ ॥ श्रीविंशतिस्थानकविचारामतसंग्रहः ॥
(कर्ता श्रीजिनहर्षसृरिः) श्रीभूर्भुवःस्वस्त्रितयं पुनाना, द्रव्याभिधानाकृतिभावरूपैः । त्रिकालवर्तिस्थितयो जिनेन्द्राः, सृजन्तु सर्वाद्भुतसौख्यलक्ष्मीम् ॥१॥ जिनेन्द्रपदवीप्राप्ति-निमित्तं सुदृशां तपः । विंशतिस्थानकाहानं, जयति श्रीजिनागमे ॥ २ ॥ दानशीलतपोभावभेदैर्धर्मश्चतुर्विधः । प्रणीतः सकलश्रेयो-लतारामसुधाम्बुदः ॥३॥ यतः-दानं सुपात्रे विशदं च शीलं, तपो विचित्रं शुभभावना च । भवार्णवोत्तारणयानपात्रं, धर्म चतुर्धा मुनयो वदन्ति ॥ ४ ॥ ज्ञानदानादिमिर्भे दै-नं तत्र विधा भवेत् । सर्वधर्मधुरि ख्यातं, निदानं संपदां परम् ॥५॥ यतः-- * दाणं च तत्य तिविहं, नाणपयाणं च अभयदाणं च । धम्मोवग्गहदाणं, मुहबीयं जिणवरुटि ॥६॥ ब्रह्माष्टादशवा झेयं, सर्वधर्मैकजीवितम् । बाह्याभ्यन्तरभेदाम्यां, तपस्तु द्विविधं स्मृतम् | ॥७॥ सम्यक्स्वान्तपरीणामः, सत्क्रियासु प्रमोदतः । भावो भव्याङ्गिनामेव, भवेद्धर्मफलावहः ॥८॥ यतः-दानशीलतपः
* दानं च तत्र त्रिविधं ज्ञानप्रदानं चाभयदानं च । धर्मोपग्रहदान, सुखबीजं जिनवरोद्दिष्टम् ॥ ६ ॥
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org