SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ अथ षष्टस्थानकाधिकारः, तत्र बहुश्रुतानामाचार्योपाध्यायादिसर्वसाधूनां वात्सल्यं विधिवद्विधेयं श्रुतं तु बद्धाद्धभेदाभ्यां द्विविधं यतः - * बद्धमबद्धं तु सुअं, बद्धं (तु) दुवालसंगि निहिं । तद्विवरीयमत्रद्धं, निसीहमनिसीह बद्धं च ॥ १ ॥ बद्धं च तत् सम्यक् श्रुतं योगोद्वहनविधिनोद्देशसमुद्देशानुज्ञापूर्वको पसंपदा प्राप्तं बहु- सूत्रार्थीभयभेदैः कालिकोत्कालिकाङ्गमविष्टादि मे दैश्चानेकधा श्रुतं येषां ते बहुश्रुताः, ते च द्वादशाङ्गीधरदशपूर्वरादि मे दैरनेकथा, तेक्षं भक्तिर्विशुद्धवस्त्रपात्रभक्तपानादीनां यथोचितदानेन 'नमो उवज्झायाणं, नमो चउदसपुर्वीणं चेत्यादिपदानां बहुशः पटनेन तथा द्वादशावर्त्तवन्दनप्रदान विश्रामणादिना च भवति, बहुमानसारं बहुश्रुतेषु विधीयमाना भक्तिरतीर्थङ्करनामकर्मोदयाय जायते, यतः -- बहुश्रुतानां यो भक्ति, विधत्ते वस्तुभिः शुभैः । महेन्द्रपालमूपाल, इव स्यात्स जगत्प्रभुः ॥ २ ॥ तथाहि-- अधित्यकायां सिद्धादेः, श्रीसोपारकपत्तने । महेन्द्रपाल भूपाल, आसीद्विद्याविग्रणीः || ३ || अधीती दर्शनथेष्वरोधी शब्दवर्त्मनि । यो बभूव भुवोर्त्ता, विनयी गुरुसेवया || ४ || परिच्छदो ऽपि तस्यासीकलासु कुशलोऽखिलः । लोकोक्तिस्तदसौ सत्या, यथा राजा तथा प्रजा ॥ ५ ॥ मन्यते सद्गुरोर्योगाऽभावान्मिथ्यामतिः परम् । सद्भूततया पञ्च भूतान्येव महीपतिः || ६ || विना गुरुभ्यो गुणनीरधिभ्यो जानाति धर्म न विचक्षणोऽपि । आकर्णदीर्थोंज्ज्वललोचनोऽपि, दीपं विना पश्यति नान्धकारे ॥ ७ ॥ तस्य वाचस्पतिर्वाचस्पतिर्वत्प्रतिभाद्भुतः । सर्वज्ञधर्मपूतात्मा, समभू * बद्धमवद्धं तु श्रुतं बद्धं तु द्वादशाङ्गी निर्दिष्टम् । तद्विपरीतमबद्धं निशीथम निशीथं बद्धं तु ॥ १ ॥ १ पर्वत तलासन्ना भूमिः अधित्यका २ विद्याधराधीशः ३ अभ्यासयुतः ४ अल्ब्धमध्यः १ राजा ६ परिवारः ७ वर्त्तमानतया ८ नाम्ना ९ सुरगुरुवत् १० नवनत्रो लेख Jain Education International For Private & Personal Use Only ॥२५॥ www.jainelibrary.org
SR No.600126
Book TitleVinshatisthanaka Charitam
Original Sutra AuthorN/A
AuthorJinharsh Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1923
Total Pages196
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy