________________
विशति
स्थान
॥ ९५ ॥ततस्ताभिः सम तत्र, सुस्वादा मोदकावली । आस्वाध स सुखं भेजे, प्रियासंयोगजे क्षणम् ॥ ९६ ॥क्षणमात्रं रतियुक्ता, सौख्ये सांसारिके सताम् । ध्यात्वेति स ततस्ताभिरलंचक्रे रथं सुधीः ॥ ९७ ॥ ततो वजन्नसौ मार्गे, रथस्थषड्वधूयुतः । आलुलोकेऽहतश्चैत्य, विभ्रत्कांचनसंपदम् ॥ ९८ ॥प्रविश्य विधिना तस्मिन्नसौ चंद्रांशुनिर्मलाः । ननाम प्रतिमा जैनी, पंचांगनतिपूर्वकम् ॥ ९९ ॥तत्मिया अपि निष्पापाः, प्रणम्य श्रीजिनेश्वरान् । भावनां भावयामासुः, सुधामधुरया गिरा ॥ १०० ॥ कुमारः कौतुकी चैत्यशंगमारूढवांस्तदा । पश्यन् प्रासादसौंदर्य, केनचित्पातितोऽवनौ ॥ १ ॥ अखंडिताखिलांगोऽसौ, परं पुण्यानुभावतः । तस्थौ यन्न चिरस्थायि, दुःखं सन्न्यायशालिनः ॥ २ ॥ भार्याविलोकन यावत्सृजत्यहंद्गृहे ततः । तावदालोकते नैवः , ताः पुनः कापि सागरः ॥ ३ ॥ प्रिया मे जैनवरुमस्थाः, केनचिद् द्विषता हृताः । इति ध्यायन् क्षणं तस्थौ, चिंताक्लांतमना असौ ॥ ४ ॥ ततः सर्वार्तिशांत्यर्थ, शुचीभूय जगत्पत्तिम् । अर्हतं पूजयामास, स सुधीः स्मेरवारिजः ॥ ५ ॥ यतः-यांति दु. दुरितानि दूरतः, कुर्वते सपदि संपदः पदम् । भूपति भुवनानि कीर्तयः, पूजया विहितया जगद्गुरोः ॥ ६ ॥ तस्मिन्नवसरे तत्रामृतचंद्रमहीभुजः । वयस्यः श्रीपुरस्वामी, भार्यया सुतया समम् ॥ ७ ॥ धर्मनामा भुवो भर्ता, प्राप्तवान् सपरिच्छदः । नैमित्तिकगिरा ज्ञात्वा, सागरें, समागतम् ॥ ८॥ युग्मं ॥ सुताभिः पंचभिः साक, सिंहनादोऽपि खेचरः । तत्रायातोऽहतां मूर्तीदित्वा निजगाद तम् ॥ ९ ॥ कुमार ! भवता दृष्टोऽमिततेजा नभश्चरः । यः प्राग् कनकमालाया, मातुलो जलवस्तदे ॥ १० ॥ पद्मोत्पलौ सुतौ तस्य, दुविनीतौ महोद्धती ।
मृतचंद्रमहीभुज
ज्ञात्वा, सागरदु
॥ ८१ ॥
म ॥ ९ ॥ माया दुविनीतो
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org