________________
CROSCORECARROSAROUS
विशेषतरभाषणरूपायां, एषु भक्तादिषु यत्किञ्चित् मम विनयपरिहीणं भक्तिवियुक्तं सजातमित्यर्थः, सूक्ष्मं वा अल्पप्रायश्चित्तशोध्यम् , बादरंवा गरिष्ठप्रायश्चित्तशोध्यम् , यूयं जानीथ सकलभाववेदकत्वात् ,अहं न जानामि मूढत्वात् , तस्याप्रीतिकादिविषयस्यातिचारस्य मिथ्या मे दुष्कृतमिति। पुनरपि वन्दनं दत्वा शक्त्यनुरूपं प्रत्याख्यानं करोति [वन्दनापेक्षया] तत्र-प्रत्याख्यानानि १ तद्भङ्गा २-5। कार ३ सूत्रा ४र्थ ५ शुद्धयः।६। प्रत्याख्यानफलं चात्र ७, किञ्चिदेवोच्यतेऽधुना ।।तत्र प्रत्याख्यानं द्विधा, मूलगुणप्रत्याख्यानोत्तरगुणप्रत्याख्यानभेदात्, मूलगुणप्रत्याख्यानं द्विधा देशसर्वभेदात् , सर्वमूलगुणप्रत्याख्यानं साधूनां पञ्च महाव्रतानि, देशमूलगुणप्रत्याख्यानं श्राद्धानां पञ्चाणुव्रतानि, उत्तरगुणप्रत्याख्यानमपि द्वेधा देशसर्वभेदात् , साधूनां सर्वोत्तरगुणप्रत्याख्यानमनेकधा यथा-पिण्डस्स जा विसोही, समिईओ भावणा तबो दुविहो । पडिमा अभिग्गहावि य, उत्तरगुणमो वियाणाहि" श्राद्धानां देशोत्तरगुणप्रत्याख्यानं यथायोग्यमनागतादि दशधा यथा- "अणागयमइकंतं, कोडीसहियं नियंटियं चेव । सागारमणागारं, परिमाणकडं निरवसेसं ॥१॥ संकेयं चेव अद्धाए, पञ्चक्खाणं तु दसविहं होइ । सयमेवणुपालणियं, दाणुवएसो जहसमाही
॥२॥” तत्र पर्युषणादौ ग्लानत्ववैयावृत्त्यादिकारणसद्भावे तदर्वागपि यदष्टमादि क्रियते तदनागतं १, एवमतिकादन्ते पर्वणि यत्क्रियते तदतिक्रान्तं २, एकस्य निष्ठाकाले अन्यस्य च ग्रहणकाले प्रत्याख्यानस्याद्यन्तकोटिद्वयमीलना
कोटिसहितं ३, मासे मासे अमुष्मिन् दिवसे वा यदष्टमादि विधेयं हृष्टेन ग्लानेन वा तन्नियत्रितं, एतच्चतुर्दशपूर्विषु
-NCRECRUSHOCCUCIEOCOCCECRUCIALOG
Jan Education
For Private
Personal Use Only