________________
श्राद्धप्र.
॥२८॥
यथा भवत्येवं, वर्द्धतां पुनर्वृद्ध्यभिधानं प्रत्यहं मोक्षार्थिना ज्ञानवृद्विविधेया इत्युपदेशार्थ । श्रुतस्यैव वन्दनादिप्रत्ययं कायोत्सर्गार्थ पठति 'सुयस्स भगवओ' इत्यादि वोसिरामि' इति यावत् । अर्थः प्राग्वत् , नवरं श्रुतस्येति प्रवचनस्य सामायिकादिचतुर्दशपूर्वपर्यन्तस्य, भगवतः समग्रैश्चर्यादियुक्तस्य । स्तुतिश्चात्रे श्रुतस्य दातव्या "सुयनाणत्थयरूवो, अहिगारोएस होइ सत्तमओ। इह पयसंपय सोलस नवुत्तरा वण्णदुन्नि सया" चतुर्थो दण्डकः। ततश्च सर्वानुष्ठानफलभूतेभ्यः सिद्धेभ्यो नमस्करणायेदं पठति'सिद्धाणं बुद्धाणं, पारगयाणं परंपरगयाणं । लोअग्गमुवगयाणं, नमो सया सव्वसिद्धाणं ॥१॥'
सिद्धेभ्यः परिनिष्ठितार्थेभ्यः, ते च सामान्यतः “कम्मे सिप्प य विजों य मंते जोगे य आगमे । अर्थ जत्ता अभिप्पाए तवे कम्मक्खए इय ॥१॥” इत्याद्यनेकविधाः स्युरतआह--बुद्धेभ्यो ज्ञाततत्त्वेभ्यः, पारं पर्यन्तं संसा रस्य प्रयोजनवातस्य वा गताः पारगतास्तेभ्यः, परम्परागतेभ्यः परम्परया *चतुर्दशगुणस्थानक्रमारोहरूपया, यद्वा
१ तृतीयकायोत्सर्गे । २ कर्मणि कृषिवाणिज्यादौ सिद्धो निपुणः कर्मसिद्धः । ३ गुरूपदेशके शिल्पे सिद्धः शिल्पसिद्धः । ४ विद्यायां सिद्धः । ५ मन्ने सिद्धः । ६ योगसिद्धः औषधसिद्धः। ७ आगमसिद्धः सर्वसिद्धान्तवेत्ता। ८ अर्थसिद्धः अतिद्रव्योपार्जनपरः । ९ जले स्थले च यस्य निर्विघ्ना यात्रा स यात्रासिद्धः । १० चतुर्थबुद्धिनिपुणोऽभिप्रायवेत्ता अभिप्रायसिद्धः । ११ तपःसिद्धो महातपत्ती । |१२ कर्मणां क्षयेण सिद्धः कर्मक्षयसिद्धः । “मिच्छे १ सासण २ मीसे ३, अविरय ४ देसे ५ पमत्त ६ अपमते ७ । नियट्टि ८ अनियहि ||
२८.।
Jain Education
For Private
Personal Use Only
U
jainelibrary.org