________________
सेनोऽत्र भूपतिः ॥ १२॥ धीमान् शङ्करधर्माख्यस्तस्य चासीन्महत्तमः। स राजोग्रकरैर्लोकाद्भरि द्रव्यममीलयत् MI॥ १३ ॥ निधानेऽस्य गिरेः पार्थे, विंशतिः स्वर्णकोटयः। क्षितौ क्षिप्ता क्षितीशेन, तेन तन्मत्रिणा समम् ॥१४॥
अपुत्रोऽसौ मृतो राज्यध्वंसे च समुपस्थिते । अस्मद्गुरुगुरोः पार्थे, स मत्री तापसोऽभवत् ॥ १५॥ तेनापि गुरवे तस्मै, कल्पोऽयं दर्शितस्ततः । गुरुणोक्तमिदानीं त्वं, सुरक्षितमिमं कुरु ॥ १६ ॥ एवं परम्परेणायं, मम हस्तग-दू तोऽभवत्। मया खनितुमारेभे, तस्मिन् विघ्नास्ततोऽभवन् ॥१७॥ तदत्र कुरु साहाय्यं, नरदेव ! नरोत्तम । दाक्षि|ण्येन कुमारोऽपि, प्रत्यपद्यत तद्वचः ॥ १८ ॥ बलिपूजादिकं कृत्वा, खन्यमानेऽथ तत्र च । यक्षेण तापसोऽघानि, |निधिश्च प्रकटीकृतः ॥ १९॥ कुमारोऽचिन्तयञ्चास्य, प्रयासो धिग्वृथाऽभवत् । निधिश्चायं मया घlः, पित्रे भोग्यः खयं नतु ॥२०॥ ध्यात्वेत्यवन्तिसेनस्य, तद्देशाधिपतेस्ततः। स्वमातुलस्य पार्थेऽगात् , तेनाप्येषोऽथ सत्कृतः ॥२१॥ पृष्ट्रकाकित्वहेतुं च, प्रोक्तोऽसौ तेन भूभुजा। वत्सेदं राज्यमादत्व, वनवासाय याम्यहम् ॥ २२॥ नरदेवोऽवदद्देव ! राज्येनालं परं भवान् । निधि प्रस्थापयत्वेनं, समीपे मत्पितुर्दुतम् ॥ २३॥ तेनापि च तथा चक्रे, कुमारोऽसौ ततः पुरात् । जगाम गन्धिलावत्यां, पुर्या तत्र च वीक्ष्य सः॥२४॥ शक्रावतारचैत्यान्तः, प्रतिमां प्रथमाऽहंतः । पञ्चागस्पृष्टभूपृष्ठः, प्रणिपत्याब्रवीदिति ॥२५॥धर्मकर्मोपदेशित्वाद्विश्वस्याप्यभिनन्दनः। श्रीयुगादिजिनाधीश ! जय त्वं नाभिनन्दन ! ॥२६॥ हे देव ! मरुदेवाङ्गसरोहंससमानते! । नमस्कुर्वति ये ननं, भवाम्भोधिभ्रमा न ते ॥ २७ ॥
StortorARRA
Jain Education
a
l
For Private Personel Use Only
jalnelibrary.org