________________
C
A
च सर्वेषां प्रथमं भवति मङ्गलम् ॥१॥ अत्र चाष्टपष्टिरक्षराणि, नव पदानि, अष्टौ च सम्पदो विश्रामस्थानानि तत्र सप्त एकैकपदाः अन्त्या तु द्विपदा, अधिकारिणस्तु पञ्चाहदादयो मार्गाविप्रणाशादिभिः कारणैनमस्काराः। यथा"मग्गे १ अविप्पणासो २ आयारे ३ विणयया ४ सहायत्तं ५। पञ्चविहनमुक्कारं करेमि एएहिं हेऊहिं" इति ॥ (सम्यक्त्वादिमोक्षमार्गोऽमीभिर्दर्शितः १ अविप्रणाशः) अस्य पाठे ऐहिकामुष्मिकफलं प्रदर्श्यते-इहलोगंमि तिदंडी सादिवं माउलिंगवणमेव । परलोए चंडपिंगल हुंडियजक्खो य दिटुंता।" इहलोके पाठकजनापेक्षया अत्रैव जन्मनि त्रिदण्डीति त्रिदण्ड्युपलक्षितः श्रावकसुतो दृष्टान्तः १ सादिव्यंति श्रावकसुताया देवतासान्निध्यम् २ |माउलिङ्गवणमेवेति मातुलिङ्गवनं बीजपूराणां (उद्यानं) तेन सूचितः श्रावकश्चेति ३ एते इहलोकफलप्रतिपादका 81 दृष्टान्ताः, तथा परलोकेऽन्यभवे चण्डपिङ्गलः हुण्डिकयक्षश्च ५ दृष्टान्ताविति गाथाक्षरार्थः। भावार्थस्तु सर्वोदाहरणानां पुलिन्द्रमिथुनकथानकादवसेयः । तथाहि| वसुन्धरावधूक्रीडापुष्करे पुष्करा के । समृद्धो भरते ग्रामः, सिद्धावट इति स्मृतः॥१॥ विश्वारामं कषाया-15 | निसन्तप्तं देशनाजलैः। तत्रायात्सुव्रताचार्यः, सिञ्चन्नब्द इवान्यदा ॥२॥ वर्षारात्रस्तदा प्राप्तो, वियुक्तजनदुर्जनः | केतकीकुटजोचुम्बिरोलम्बनिकुरम्बकः ॥३॥ स्तनन्त्यो यत्र सर्वत्र, कृष्णाः पुष्टाः पयःप्रदाः । मेघमाला अटाट्यन्ते, |खे महिष्यश्च भूतले ॥ ४ ॥ ततः पृथ्वीं पयःपूर्णी नवाङ्करां साकुलाम् । दृष्ट्वा कृपापरः साधूनूचेऽनूचानपुङ्गवः
RRIORAKAR
JainEducatiort
i onal
For Private & Personal Use Only