SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ **CHOLARSHK4XAS RESTOSAS लाभः समायस्तत्र भवं सामायिकम् , एतच देशसर्वसावद्ययोगप्रत्याख्यानभेदात् द्विधा, तत्र श्रावकस्य सामान्येन सर्वत्राप्यनुमतिसंभवात् सर्वशब्दवर्ज, सहावद्येन पापेन यः स सावधो योगोव्यापारस्तं,प्रत्याचक्षे निषेधामि, यावजीवाल्पकालभेदान्निषेधोऽपि द्विधा इति कृत्वाह-यावन्नियमं पर्युपासयामि यावन्तं कालं व्रते तिष्ठामि, प्रतावस्थानकालश्च जघन्येनापि कालान्त (लेनान्त)मुहूर्त्तकालमात्रः, प्रत्याख्यानस्य त्रिविधत्रिविधेनेत्यादि नवभङ्गीसंभवत्वात् अत्राधिकृतचतुर्थभङ्गमाश्रित्याह-द्विविधं त्रिविधेनेति, अयमपि भङ्गकस्त्रिभेदतोऽतो नियमनायाह-मनसा वाचा कायेन, प्रत्युत्पन्नसावद्ययोगविरतिरूपेण, न करोमि स्वयं न कारयामि चान्यैः, व्यत्ययनिर्देशस्तु योगस्य करणाधीनताज्ञापनार्थः॥ग्र.१४००॥अत्र च करोमि भदन्त सामायिकमित्यनेन प्रत्युत्पन्नसावद्ययोगविरतिरुक्ता, सावा यागं प्रत्याख्यामीत्यनेन त्वनागतस्येति, अतीतप्रतिक्रमणार्थमाह-तस्याप्यपिशब्दलोपादत्र षष्ठी द्वितीयार्थ प्राकृतत्वात् । अतीतं सावधं योगं भदन्त प्रतिक्रमामि मनसा मिथ्यादुष्कृतकरणेन निवर्त्तयामि, निन्दामि स्वसाक्षिकं, गर्हे गुरुसाक्षिकं, पुनर्भदन्तग्रहणं सर्वमपि कार्य कृत्वा तस्मै निवेदनीयमितिज्ञापनार्थ, तथात्मानमतीतसावद्ययोगकारिणं तदनुमतित्यागेन व्युत्सृजामि त्यजामीति। कृतसामायिकेन च प्रतिक्रमणमनुष्ठेयं, तस्य च सर्वातिचारविशोधकत्वेन विशिष्टश्रेयोभूतत्वान्मङ्गलाद्यभिधानार्थ प्रथमगाथामाह वंदित्तु सव्वसिद्धे, धम्मायरिए अ सव्वसाहू अ । इच्छामि पडिकमिउं, सावगधम्माइआरस्स॥१॥ -RRBARICRACNECRA in Educatie For Private Personel Use Only jainelibrary.org
SR No.600125
Book TitleVandaruvruttya Parnamni Shraddha Pratikraman Sutra Vrutti
Original Sutra AuthorN/A
AuthorDevendrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages204
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy