________________
अतिथिसंविभागवतस्यातीचाराः
प्रथमोऽतिचारः १, एवं सचित्तेन पिधान-स्थगनं सचित्तपिधानं २, स्वकीयस्याप्यदानबुद्ध्यादिना परकीयत्वाभिधानं परकी-| यस्यापि वा दानबुद्ध्या स्वकीयत्वाभिधानं परव्यपदेशः, यद्वा विद्यमानमपि किञ्चिद् वस्तु याचितोऽमुकस्येदमस्ति तत्र गत्वा मार्गयत यूयमित्याह, अवज्ञया वा परेण दापयति, मृतस्य जीवतो वा परस्य पुण्यं भूयादिति परोद्देशेन ददाति वा स परव्यपदेशः ३, मत्सरः-कोपो, यथा मार्गितः सन् कुप्यति, सदपि वा मार्गितं न ददाति, यद्वा परोन्नतिवैमनत्यं मत्सरः, केनचिन्निर्धनेनापि दानं दत्तं दृष्ट्वा किमेतस्मादप्यहं हीन इति मात्सर्यादानं चतुर्थः ४, उचितभिक्षावेलामतिक्रम्य सम्प्रत्येते न लास्यन्तीति धिया साधूनां निमन्त्रणं कालातिक्रमदानं, कोऽर्थश्च तेन दानेन?, यतः-"काले दिन्नस्स पहेणयस्स०॥१॥" एषु च मया निमन्त्रणादिना दीयमानमस्ति नवरं साधव एव न गृह्णन्ति, बहिवृत्त्या व्रतसापेक्षत्वादानान्तरायदुष्कर्मणा च मायाकरणादतिचारता, चउत्थेत्यादि पूर्ववत् , एतद्वतफलं दिव्यभोगसमृद्धिसाम्राज्यादितीर्थकृत्पदादि श्रीशालिभद्रमूलदेवाद्यान्त्याहदादीनाभिव सर्वप्रसिद्धं, वैपरीले तु दास्यदौर्गत्याद्यपीति त्रिंशगाथार्थः ॥ ३०॥ अत्र व्रते मित्रद्वय कथा । अथातिथिसंविभागवतस्य न केवलमेस एव प्रदर्शितरूपा अतिचारा निन्दाहीः किन्त्वन्येऽपि सन्तीति प्राह
'सुहिएसु अ' इत्यादि, साधुध्विति विशेष्यमनुक्तमपि संविभागवतप्रस्तावादध्याहार्य, ततः साधुषु, कीदृशेषु? सुष्ठ | हितं-ज्ञानादित्रयं येषां ते सुहितास्तेषु, पुनः कथम्भूतेषु ?, दुःखितेषु-रोगेण तपसा वा ग्लानीभूतेषु, उपधिरहितेषु वा, पुनः कीदृक्षु?, न स्वयं-स्वच्छन्देन यता-उद्यता अस्वयतास्तेषु, गुर्वाज्ञयैव विहरत्सु इत्यर्थः । या मया कृता अनुकम्पा-कृपा अन्नपानवस्त्रादिदानरूपा भक्तिः, अनुकम्पाशब्देनात्र भक्तिः सूचिता, रागेण-खजनमित्रादिप्रेम्गा न तु गुणवत्त्वबुद्ध्या, तथा
For Private
Personel Use Only
dw.jainelibrary.org