________________
चन्दनप्रतिक्रमणावचूरिः ॥१६॥
प्रत्याख्या
नस्य आकाराः
पोरसीए उ । सत्तेव य पुरिमड्ढे एगासणगंमि अद्वैव ॥१॥ सत्तेगट्ठाणस्स उ अद्वैव य अंबिलंमि आगारा। पंचेव अभत्तद्वे, छप्पाणे चरिम चत्तारि ॥२॥ पंच चउरो अभिग्गहे निधीए अट्ठ नव य आगारा । अप्पाउरणे पंच य हवंति सेसेसु चत्तारि ॥३॥" निर्विकृतौ अष्ट नव च, कथं ?, "नवणीओगाहिमए अद्दवदहिपिसियघयगुले चेव । नव आगारा एसि सेसदवाणं तु अद्वैव ॥१॥" अप्रावरणे चोलपट्टाकारः पञ्चमः। द्वारं ३।
साम्प्रतं सूत्रार्थः-'उग्गए सूरे' इत्यादि, उद्गते सूर्ये 'नमस्कारसहित' मिति, मुहूर्तादुपर्यपि यावन्नमस्कारेण न पारयामि तावत् , किमित्याह-चतुर्विधमप्याहारं-अशनं पानं खाद्यं स्वाद्यं स्वरूपगाथाः (पृ०७२) अन्यत्रानाभोगात्, अनाभोगोडत्यन्तविस्मृतिः, तथा सहसाकारात् सहसाकारः-अतिप्रवृत्तयोगादनिवर्त्तनं, ताभ्यामन्यत्र व्युत्सृजामि-त्यजामि । “पोरिसिअं पच्चक्खामि उग्गए सूरे चउवि पि आहारं असणे"त्यादि व्याख्या सर्वत्र प्राग्वत् , विशेषस्तूच्यते-पुरुषः प्रमाणमस्याः सा पौरुषी-छाया, कथं ?, कर्कसङ्क्रातौ पूर्वाहे अपराह्ने वा यदा शरीरप्रमाणा छाया भवति तदा पौरुषी, प्रहर इत्यर्थः, तदेव पुरुषप्रमाणमस्थाः सा पौरुषी, तद्रेखां याम्योत्तरायतां यदा देहच्छायापर्यन्तः स्पृशति तदा सर्वदिनेषु पौरुषी, यद्वा पुरुषस्य ऊर्वस्थितस्य दक्षिणकर्णनिवेशितार्कबिम्बस्य दक्षिणायनाद्यदिने यदा जानुच्छाया द्विपदा भवति तदा पौरुषी, यथा 'आषाढे मासे' त्यादि, हानिवृद्धी त्वेवं 'अंगुलं सत्तरत्तेणे'त्यादि २, 'साहुवयणेण'मित्यत्र पादोनप्रहरेणाप्यधिकारोऽतस्तत्र | पौरुषीच्छायोपरि प्रक्षेपोऽयं, 'जिट्ठामूले' इत्यादि, सार्द्धपौरुषी त्वेवं-"पोसे तणुछायाए नवहि पएहिं तु पोरसी सड्डा। ताविक्किक्का हाणी जावासाढे पया तिन्नि ॥१॥” पूर्वार्दोऽये वक्ष्यमाणोऽपि प्रमाणप्रस्तावादिहैव ज्ञेयो यथा-"पोसे विहत्थि
॥१६॥
Jain Education
For Private Personel Use Only
Mrjainelibrary.org