________________
महत्तराद्यैर्यद्वर्त्तते तत् साकारं ५, निर्गतं महत्तरादिआकारकरणात् निराकारं ६, दत्ति-कवलादीयत्तया परिमाणकृतं ७, सर्वाशनपानत्यागान्निरवशेषं ८, अङ्गुष्ठग्रन्थ्यादिचिह्नोपलक्षितं संकेतं ९, अद्धा - कालस्तदुपलक्षितमद्धाप्रत्याख्यानं १०, तद्दशधा यथा - " नवकार १ पोरिसीए २ पुरिमड्ढे ३ गासणे ४ गट्ठाणे अ ५ । आयंबिल ६ अभत्तट्ठे ७ चरिमे अ ८ अभिग्गहे ९ विगई १० ॥ १ ॥ द्वारं १, भङ्गकास्तु सप्तचत्वारिंशं शतं भवन्ति, ते चैवम् - " तिन्नि तिआ तिन्नि दुआ तिन्निकिका य हुति जोगेसु । तिदुकं तिदुकं तिदुरगं चेव करणाई ॥ १ ॥” नवका मनोवाक्कायेषु एवं स्थापितेषु योगकरणेषु गाथोक्तांकैः समग्रैरङ्गैर्वर्त्त्यमाना एकोनपञ्चाशद्भङ्गाः स्युः, ते चैवं प्रथमांके ऊर्द्धाधस्त्रिकरूपे मनोवाक्कायैर्न करोति न कारयति नानुमन्यते चेत्येको भङ्गः, द्वितीये त्रिकद्विकरूपे मनोवाक्कायैर्न करोति न कारयति, न करोति नानुमन्यते, न कारयति नानुमन्यते चेति भङ्गत्रयमेव, एवमन्येऽपि स्वधिया वाच्याः ततोऽतीतानागतवर्त्तमान कालत्रिकेण गुणिताः सप्तचत्वारिंशं भङ्गशतं स्याद् उक्तञ्च - " पढमे लब्भइ एगो सेसेसु पदेसु तिअ तिअ तिअंति । दो नव तिअ दो नवगा तिगुणिय सीआल भंगसयं ॥ १ ॥ सीयालं भंगस्यं पच्चक्खाणंमि जस्स उवलद्धं । सो खलु पच्चक्खाणे कुसलो सेसा अकुसलाउ ॥ २ ॥ " यद्वा-" इत्थं पच्चक्खायापच्चक्खाविंतयाण चभंगी । जाणगऽजाणपएहि णिष्कण्णा होइ णायवा ॥ ३ ॥ ज्ञो ज्ञस्य पार्श्वे प्रत्याख्यातीति शुद्धः १, ज्ञोऽज्ञस्य गुर्वाद्यभावे बहुमानतो गुरुपितृपितृव्यादेः सकाशे शुद्धः २, अज्ञो ज्ञस्य पार्श्वे तदैव संक्षेपेण ज्ञापिते शुद्धः ३, अज्ञोऽज्ञस्याशुद्ध एव ४, द्वारं २ । प्रत्याख्यानस्य भङ्गे तु गुरुर्दोषः, यथा च - " वयभंगे गुरुदोसो थेवस्सवि पालणा गुणकरी य । गुरुलाघवं च णेअं धम्मंमि अओ उ आगारा ॥ १ ॥ दो चेव नमुक्कारे आगारा छच्च
Jain Educational
For Private & Personal Use Only
4
+++++******+
+++++++++
प्रत्याख्यानस्य भङ्गाः
www.jainelibrary.org