________________
3
3-
वन्दनप्रतिक्रमणावचूरिः
कायोत्सर्गदोपाः
निधाय ४ अवसनशबरीवद्गुह्याने करौ कृत्वा ५ वधूवदवनतोत्तमाङ्गः ६ निगडितवचरणौ विस्तार्य मेलयित्वा वा ७ नाभेरुपरि जानुनोरधश्च प्रलम्बमाननिवसनः ८ दंशादिरक्षणार्थमज्ञानाद्वा हृदयं प्रच्छाद्य ९ शकटोर्धिवदङ्गुष्ठौ पाणी वा मेलयित्वा १० संयतीवत् प्रावृत्य ११ कविकवद्रजोहरणमग्रतः कृत्वा १२ वायसवत् चक्षुर्गोलको भ्रमयन् १३ कपित्थवत्परिधानं पिण्डयित्वा १४ यक्षाविष्ट इव शिरः कम्पयन् १५ मूकवत् हुहूकुर्वन् १६ आलापकगणनार्थमङ्गुलीभ्रुवौ वा चालयन् १७ वारुणीसुरा तद्वद् बुडबुडयन १८ अनुप्रेक्षमाणो वानर इव ओष्ठपुटं चालयन् १९ कायोत्सर्ग करोतीत्येकोनविंशतिर्दोषाः । सूत्रे सर्वमप्यनुष्ठानं साधुमुद्दिश्योक्तमतस्तद्विशेषमाह-'नाहि त्ति' नाभेरधश्चत्वार्यकुलानि चोलपट्टः 'करयल'त्ति दक्षिणेतरपाणिभ्यां मुखवस्त्रिका रजोहरणं च 'कुप्पर'त्ति कूर्पराभ्यां चोलपट्टश्च धरणीयः, 'उस्सारिअ पारिश्रमि धुई' त्ति उत्सारिते-पूरिते कायोत्सर्गे नमस्कारेण पारित वन्द्यमानजिनस्तुतिर्भणनीया, पाठान्तरं वा-"एगूणवीस दोसा काउस्सग्गस्स वजिज्जा" सुबोधं चैतद्, इति गाथाद्वयार्थः। स्तुतिश्चात्र मूलबिम्बमाश्रित्य देया, ततः स्तुतिदानानन्तरमस्यामवसर्पिण्यां ये भारते वर्षे तीर्थकृतोऽभूव॑स्तेषां आसन्नोपकारित्वेन नामोत्कीर्तनाय चतुर्विंशतिस्तवं पठति-'लोगस्सेत्यादि, लोकस्य-पञ्चास्तिकायात्मकस्य केवलालोकदीपेन उड्योतकरान्-प्रकाशकान्, धर्मतीर्थकरान-नद्यादेः शाक्यादेश्च द्रव्यतीर्थनिरासेन संसारोत्तारकसङ्घादिधर्मतीर्थकरणशीलान् जिनान्-रागादिजेतृन्, अहंत इति विशेष्यपदं, तान् कीर्तयिष्यामि-नामभिः स्तोष्ये चतुर्विंशतिमपि, अपिशब्दाच्छेषक्षेत्रसम्भवाँश्च, केवलिनो भावाहत इत्यर्थः, नामान्येवाह-'उसभेत्यादि, गाथात्रयं पाठसिद्धं, नामार्थस्तु सामान्यतो विशेषतश्चोच्यते, [षडावश्यकसूत्रवृत्तितो ज्ञेयः एवं कीर्तयित्वा चित्तशुद्धये प्रणिधानमाह-,
Jain Educati
o
nal
For Private Personal Use Only
S
ainelibrary.org