SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ वन्दनप्रतिक्रमगावचूरि भावजिनस्थापना जिनवन्दना ॥४३॥ वृत्तिक्रियाद्युपरोधेनान्यथाऽपि, यतः-"वित्तिवुच्छेअम्मि उ गिहिणो सीयंति सबकिरिआओ। निरविक्खस्स उ जुत्तो संपुन्नो संयमो चेव ॥१॥" क विषये आलोचना ?, इत्याह-'मूलगुणे उत्तरगुणे' मूलगुणाः-पश्चाणुव्रतानि उत्तरगुणाः-सप्त गुणवतादीनि, एवं च विस्मृतातिचारस्य सामान्येनापि प्रतिक्रमणेन शुद्धिरित्यावेदितमिति द्वाचत्वारिंशगाथार्थः ॥ ४२ ॥ एवं प्रतिक्रमको दुष्कृतनिन्दादीन् विधाय विनयमूलधाराधनार्थ कायेनाभ्युत्थितः सन्| 'तस्स धम्मस्स केवलिपन्नत्तस्सेत्यादि, तस्य-गुरुपार्श्वे प्रतिपन्नस्य धर्मस्य-श्रावकधर्मस्य केवलिप्रज्ञप्तस्य अभ्युत्थितोऽस्म्याराधनायै उद्यतोऽहं सम्यक्पालनार्थ विरतश्च विराधनायाः-निवृत्तः खण्डनायास्त्रिविधेन-मनोवाक्कायैः प्रतिक्रान्तःप्रतिक्रमितव्यातिचारेभ्यो व्यावृत्तो वन्दे जिनाँश्चतुर्विंशतिं श्रीऋषभादिकान् क्षेत्रकालासन्नोपकारिणः, चतुर्विंशतिग्रहणात् पञ्चभरतपञ्चैरावतप्रभवान् उपलक्षणत्वात् पञ्चमहाविदेहगताँश्च जिनान् बन्दे, एवं “चउवीसजिणविणिग्गयकहाई" इत्यत्र प्रान्तगाथान्ते च भाव्यमिति त्रिचत्वारिंशगाथार्थः॥४३॥ एवं भावजिनान्नत्वा सम्यक्त्वशुद्ध्यर्थ लोकत्रयगतशाश्वताशाश्वतस्थापनाजिनवन्दनायाह_ 'जावंति चेइयाई उड्डे अ अहे अतिरिय' इत्यादि, यावन्ति चैत्यानि-जिनेन्द्रप्रतिमाः ऊर्द्धलोके-स्वर्गादौ अधो|लोके-भवनपतिभवनादौ तिर्यग्लोके-नन्दीश्वरादी अष्टापदादौ च सन्ति सर्वाणि तानि बन्दे, इह सन् तत्र सन्ति-विद्यमानानि अत्र स्थितः तत्रस्थानीति वा, नित्यप्रतिमासंख्यां त्वाह-"सट्ठी लक्खा गुणनवइ कोडि तेरकोडिसय बिंब भवणेसु ११३८९६००००००। तिय सय वीसा इगनवइ सहस्स लक्खतिगं तिरियं ३९१३२० ॥१॥ एगं कोडिसयं खलु बावन्ना ॥४३॥ Jain Educat i onal For Private Personal Use Only w.jainelibrary.org
SR No.600124
Book TitleVandan Pratikramanavchuri
Original Sutra AuthorN/A
AuthorKanchanvijay, Kshemankarsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1952
Total Pages134
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy