________________
सटीकः। स्तवकः। ॥११॥
शास्त्रवाता- सम्यक्प्रवृत्तित्वनैव फलप्राप्तिहेतुता, ज्ञानं तु प्रवृत्तिजनकतयाऽन्यथासिद्धमिति चेत् । न, रनवाणिज्यादिकर्मण एव विशिष्टसमुच्चयः धनादिफलप्राप्तिहेतुत्वात् , सम्यग्ज्ञान-प्रवृत्त्योस्तु तत्र तत्र कर्मण्येव तुल्यवव्यापारात् । अत एव धनव्यापारवतामीश्वराणां ॥४२॥
पाण्डित्यप्रयोजकसम्यग्ज्ञानाभावेऽपि रत्नवाणिज्यादिप्रयोजकसम्यग्ज्ञानसत्त्वाद् न क्षतिः, अन्यथा फलावच्छिन्नत्वरूपप्रवृत्तिसम्यक्त्वस्य हेतुतावच्छेदकत्वायोगात् । सम्यग्ज्ञानपूर्वकप्रवृत्तित्वेन हेतुत्वे त्वावश्यकत्वाज्ज्ञानस्यैव हेतुत्वमिति ज्ञाननयेन वक्तुं शक्यत्वात् ; चारित्रस्य तु प्रवृत्तिरूपस्यैवाधिकृतफलहेतुकर्मन्वात् । तत्र ज्ञान-क्रिययोार-द्वारिभावेन फल-हेतुत्वं | निराबाधम् । एतेन 'मन्त्रागुपयोगादेव केवलाद् वनितादिफलप्राप्तेः क्रियाया अकिश्चित्करत्वम्' इति ज्ञाननयोक्तो दोषो निरस्तः, तत्र वनिताद्यागमनस्यैव वनितादिप्राप्तिहेतुत्वात्, तत्र च मन्त्रोपयोगवत् परिजपनादिक्रियाया अपि हेतुत्वात् । | तदाह भाष्यकार:
“परिजवणाई किरिया मंतेसु वि साहणं ण तम्मत्तं । तन्नाणओ अ न फलं तन्नाणं जेणमकिरियं ॥१॥"
अथ परिजपनमपि धारावाहिकं मन्त्रज्ञानमेव, न तु वाग्व्यापाररूपा क्रियाऽपि, तूष्णी मन्त्र जपतामपि फलसिद्धः न चाक्रियस्याकाशवत् कार्यजनकत्वमसंगतमिति वाच्यम् क्रियायाः संयोग विभागादावेव हेतुत्वेन तां विनाऽऽकाशादावपि कार्यान्तराभ्युपगमादिति चेत् । न, पुरुषार्थे वनिताद्याकर्षणे परिजपनरूपमानसव्यापाराख्याया अप्यन्तःक्रियाया हेतुत्वात् , तत्तन्मन्त्रसंकेतोपनिबद्धदेवताप्रेरणजन्यत्वाच तस्य तदाह
1 परिजननादिः क्रिया मन्त्रेष्वपि साधन तन्मात्रम् । तरज्ञानननन फल तज्ज्ञानं येनाक्रियम् ॥1॥
PROPORAPE
॥४२१॥
Join Education Inter
For Private
Personel Use Only
w.jainelibrary.org