________________
decord
नन्तरमवसरप्राप्त तन्निराकरणग्रन्थेऽपि, किंचित्-उपपादनस्थानानुरोधेन, वक्ष्यते, विशेषेण-प्रतिवं तदाशयोद्भावनेन ॥१३७।।
ताथागतानां समयं समुद्रं तर्कोऽयमौर्वानलवद् ददाह । पश्यन्तु नश्यन्ति जवेन भीता दीना न मीना इव किं तदेते ? ॥१॥ रक्तः प्रसक्तः क्षणिकत्वसिद्धौ यदुक्तमूत्रं हतवान् स्वकीयम् । सूत्रान्तकोऽप्येष लिपिभ्रमेण सौत्रान्तिको लोक इति प्रसिद्धः॥२॥ क्षणक्षयक्षेपकरी सकर्णाः! कर्णामृतं वाचमिमां निपीय।।
जैनेश्वरं सिद्धिकृते प्रवादिप्रशासनं शासनमाश्रयन्तु ॥३॥ इति पण्डितश्रीपद्मविजयसोदरन्यायविशारदपण्डितयशोविजयविरचितायां स्याद्वादकल्पलताभिधानायो
शास्त्रवार्तासमुच्चयटीकायां चतुर्थः स्तबकः । अभिप्रायः मूरेरिह हि गहनो दर्शनततिनिरस्या दुर्धर्षा निजमतसमाधानविधिना। तथाप्यन्तः श्रीमन्नयविजयविज्ञाहिभजने न भग्ना चेद् भक्तिर्न नियतमसाध्यं किमपि मे ॥१॥ यस्यासन् गुरवोऽत्र जीतविजयपाज्ञाः प्रकृष्टाशया भ्राजन्ते सनया नयादिविजयप्राज्ञाश्च विद्याप्रदाः। प्रेम्णां यस्य च सम पद्मविजयो जातः सुधीः सोदरस्तेन न्यायविशारदेन रचिते ग्रन्थे मतिर्दीयताम् ॥२॥
MARATHIKARANASeAGARMATTER
Jain Education
TOT
For Private Personal use only
Raliww.jainelibrary.org