SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्ता- तस्माद्दुष्टाशयकरं क्लिष्टसत्त्वविचिन्तितम्। पापश्रुतं सदा धीरैर्वयं नास्तिकदर्शनम् ॥११२॥ सटीकः । ॥५९॥ तस्मात्- सर्वथैवाऽसत्यत्वात् , दुष्टाशयकर-परलोकाद्यभावसाधनेन विषयेच्छामात्रपर्यवसायिचित्ताध्यवसायनिवन्धनम् । तथा, क्लिष्टसत्त्वैरचिन्तिताऽऽमुष्मिकाऽपायरैहिकसुख एवाऽत्यन्तं गृद्धैर्विचिन्तितम्- खेच्छया प्रकटीकृतम् । अत एव पापश्रुतम्- श्रूयमाणमप्यनुपङ्गतः पापनिबन्धनं, धीरैः- ज्ञानवृद्धैः, नास्तिकदर्शनं सदा वर्ण्य- ज्ञात्वा परिहरणीयम् ;न त्वत्राग्रे वक्ष्यमाणेषु वार्तान्तरेष्विव द्रव्यासत्यत्वाशङ्कापि विधेया, अन्यथा तामेव च्छलमुपलभ्य प्रकृतिदुष्टा विषयपिपासापिशाची छलयेदिति भावः ॥११२ ॥ युक्तिर्मुक्तिमसरहरणी नास्ति का नास्तिकानां सर्वा गर्वात् किमु न दलिता सा नयैरास्तिकानाम् । ध्वस्तालोका किमु न जगति ध्वान्तधारा बत स्यात् किं नोच्छेत्री रविकरततिर्दुःसहोदेति तस्याः ॥१॥ वार्तामिमामत्र निशम्य सम्यक् त्यक्त्वा रसं नास्तिकदर्शनेषु । ऐकान्तिका-ऽऽत्यन्तिकशर्महेतुं श्रयन्तु वादं परमार्हतानाम् ॥२॥ ॥ ५९॥ १ अपायो दुःखम् । २ दन्यासत्यत्वाशङ्काम् । PIONSशाखाका Jan Education Intel For Private Personel Use Only
SR No.600122
Book TitleShastravartta Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorHargovinddas Pandit
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages902
LanguageSanskrit
ClassificationManuscript
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy