SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ ॥ १८ ॥ ललितवि० विचित्रभावं मृगपक्षिणां च । स्वभावतः सर्वमिदं प्रवृत्तं, न कामचारोऽस्ति कुतः प्रयत्नः १ ॥ १ ॥ एवंलक्षणस्य सिद्धिः, कुत इत्याह - " तदन्यापेक्षित्वेन" स्वभावव्यतिरिक्तकालाद्यपेक्षितत्वेन "सामग्र्याः” कालः स्वभावो नियतिः पूर्वकृतं पुरु| पश्चेत्येवंलक्षणायाः “फलहेतुत्वात्" कथं तर्हि प्राक् स्वभावः फलहेतुरुपन्यस्त इत्याह - "स्वभावस्य च तदन्तर्गतत्वेन” सामग्र्यन्तर्गतत्वेनेष्टत्वात्, फलहेतुतया, 'निर्लोठित' निर्णीतमेतत् सामग्र्याः फलहेतुत्वं अन्यत्र - उपदेशपदादौ, “आगमधामिकै" रिति आगमप्रधाना धामिका वेदवादिनस्तैः, ते हि धर्माधर्म्मादिकेऽतीन्द्रियार्थे आगममेव प्रमाणं प्रतिपद्यन्ते, न प्रत्यक्षादिकमपि, यदाहुस्ते — “अतीन्द्रियाणामर्थानां साक्षाद्रष्टा न विद्यते । वचनेन हि नित्येन यः पश्यति स पश्यति ॥ १ ॥ इति “तीर्थकरेभ्यः” इति, तत्र तीर्थकरणशीलाः तीर्थकराः, अचिन्त्यप्रभावमहापुण्यसंज्ञिततन्नामकर्म| विपाकतः, तस्यान्यथा वेदनायोगात्, तत्र येनेह जीवा जन्मजरामरणसलिलं मिथ्यादर्शनाविरतिगम्भीरं महाभीषणकषायपातालं सुदुर्लङ्घय मोहावतरौद्रं विचित्रदुःखौघदुष्टश्वापदं रागद्वेषपवनविक्षो भितं संयोगवियोगवीचीयुक्तं प्रबलमनोरथवेलाकुलं सुदीर्घ संसारसागरं तरन्ति तत्तीर्थमिति, ए| तच्च यथावस्थितसकलजीवादिपदार्थप्ररूपकं अत्यन्तानवद्यान्याविज्ञातचरणकरणक्रियाऽऽधारं त्रैलोक्य|गतशुद्धधर्म सम्प्रयुक्त महासत्त्वाश्रयं अचिन्त्यशक्ति १ अन्यैः कपिलादिभिरज्ञातयोः 6013000 Jain Education International For Private & Personal Use Only पं० युता. ॥ १८ ॥ www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy