________________
ललितवि०
॥१०५॥
००००००
36655556
|तव्य इति, दिग्मात्रप्रदर्शनमेतत् एवं प्रणिधानं कृत्वैतत्पूर्विका क्रिया फलायेति श्रुतस्यैव कायो - |त्सर्गसंपादनार्थं पठति पठन्ति वा, "सुयस्स भगवओ करेमि काउस्सग्ग" मित्यादि यावद्वोसिरामि, व्याख्या पूर्ववत्, नवरं श्रुतस्येति - प्रवचनस्य सामायिकादिचतुर्दश पूर्वपर्यन्तस्य “भगवतः " समग्रैश्वर्यादियुक्तस्य,
"तच्च" तत्पुनर्भव्यत्वं "एवंलक्षणम्" अस्थाने स्थाने चाभिनिवेशस्वभावं इत्यनयोविंशेषो ज्ञेयः, महामिथ्यादृष्टेः प्राप्तिरप्यस्यासंभविनी कुतस्तस्य फलचिन्तेत्याह - " प्राप्तं " लब्धं चकार उक्तसमुच्चये, “एतत्" श्रुतम् " अभव्यैरपि” | एकान्तमहामिथ्यादृष्टिभिः किं पुनरन्यमिथ्यादृष्टिभिः “असकृद्” अनेकशः, कुत इत्याह - " वचनप्रामाण्यात्" सर्वजीवानामनन्तशो ग्रैवेयकोपपातप्रज्ञापनाप्रामाण्यादू, एवं तर्हि तत्फलमपि तेषु भविष्यतीत्याह - "न च" नैव "ततः" श्रुतप्राप्तेः " किञ्चित्” फलमिति गम्यते, कुत इत्याह- "प्रस्तुतफललेशस्यापि” प्रकृतयथावद्बोधरूपफलांशस्यापि, आस्तां सर्वस्य " असिद्धेः " अप्राप्तेः, तत्सिद्धावल्पकालेनैव सर्वमुक्तिप्राप्तिप्रसङ्गात्, शुद्धत्वेन समग्रैश्वर्यादियोगः, न ह्यतो विधिप्रवृत्तः फलेन वञ्च्यते, व्याप्ताश्च सर्वे प्रवादा एतेन,
१ सिद्धत्वेन प्र० पञ्जिका च. २ सर्वप्रवादाः प्र०
Jain Education International
For Private & Personal Use Only
पं० युता.
॥१०५॥
www.jainelibrary.org