________________
ललितवि० चंदेसु निम्मलयरा आइच्चेसु अहिअं पयासयरा। सागरवरवरगंभीरा, सिद्धा सिद्धिं मम दिसंतु पं० युता. ॥१६॥ ॥ ७ ॥ गाहा, व्याख्या-इह प्राकृतशैल्या आर्षत्वाच्च पञ्चम्यर्थे सप्तमी द्रष्टव्येति, चन्द्रेभ्यो निर्मल
तराः, पाठान्तरं वा "चंदेहिं निम्मलयरत्ति” तत्र सकलकर्ममलापगमाञ्चन्द्रेभ्यो निर्मलतरा इति, तथा आदित्येभ्योऽधिकं प्रकाशकराः, केवलोद्योतेन विश्वप्रकाशनादिति, उक्तं च-"चंदाइच्चगहाणं || पहा पगासेइ परिमियं खेत्तं । केवलियणाणलंभो लोयालोयं पगासेइ ॥१॥" तथा सागरवरगम्भीराः' तत्र सागरवरः-खयम्भूरमणोऽभिधीयते, परीषहोपसर्गाद्यक्षोभ्यत्वात्, तस्मादपि गम्भीरा ] इति भावना, सितं-ध्मातमेषामिति सिद्धाः, कर्मविगमात्कृतकृत्या इत्यर्थः, सिद्धि-परमपदप्राप्तिं मम | / दिशन्तु-अस्माकं प्रयच्छन्त्विति गाथार्थः, ॥७॥
इति श्रीमुनिचन्द्रसूरिविरचितललितविस्तरापञ्जिकायां चतुर्विंशतिस्तवः समाप्तः ॥ एवं चतुर्विंशतिस्तवमुक्त्वा सर्वलोक एवार्हचैत्यानां कायोत्सर्गकरणायेदं पठति पठन्ति । सीवा-"सबलोए अरिहंतचेइयाणं करेमि काउस्सग्गमित्यादि जाववोसिरामि" व्याख्या पूर्व-151
000000000000000000
Jain Education International
For Private Personel Use Only
www.jainelibrary.org