________________
ललितवि०
॥ ९५ ॥
| कीदृगित्याह - " महदपायसाधनं" नरकपाताद्यनर्थकारणं, कुत इत्याह - "अविशेषज्ञता " सामान्येन गुणानां पुरुषार्थोप| योगिजीवाजीव धर्मलक्षणानां दोषाणां तदितररूपाणां तदुभयेषां च विशेषो विवरको विभाग इत्येकोऽर्थस्तस्यानभिज्ञता- विपरीतबोधरूपाऽर्थकृत्यनर्थप्राप्तिहेतुतया हिंसानृतादिवत् “हिः” यस्मात् "गर्हिता" दूषिता, ननु कथमिदं प्रत्ये© यमित्याशङ्कयाह
पृथग्जनानामपि सिद्धमेतत्, योगिबुद्धिगम्योऽयं व्यवहारः, सार्थकानर्थकचिन्तायां भाज्यमेतत्,
“पृथग्जनानामपि” पृथक् - तथाविधालौकिकसामयिकाचारविचारादेर्बहिः स्थिता बहुविधा बालादिप्रकारा जनाः- प्राकृतलोकाः प्रथग्जनास्तेषामपि किं पुनरन्येषां शास्त्राधीनधियां सुधियामित्यपिशब्दार्थः, सिद्धं प्रतीतमेतद्-अविशेषज्ञतागॐ र्हणं, 'नार्घन्ति रत्नानि समुद्रजानि, परीक्षका यत्र न सन्ति देशे । आभीरघोषे किल चन्द्रकान्तं, त्रिभिः किलादैः (भिर्व
H
राः) प्रवदन्ति गोपाः ॥ १ ॥ अस्यां सखे ! बधिरलोकनिवासभूमौ किं कूजितेन तव कोकिल ! कोमलेन । एते हि | दैववशतस्तदभिन्नवर्ण, त्वां काकमेव कलयन्ति कलानभिज्ञाः ॥ २ ॥ इत्याद्यविशेषज्ञव्यवहाराणां तेषामपि गर्हणीयत्वेन | प्रतीतत्वात्, स्यादेतद्-अभ्युदयफलत्वेन धर्मस्य लोके रूढत्वात्तथैव च तत्प्रार्थनायां काऽविशेषज्ञता इत्याशङ्कयाह - "योगिॐ बुद्धिगम्योऽयं व्यवहारो” मुमुक्षुबुद्धिपरिच्छेद्योऽयं ऋद्ध्यभिष्वङ्गतः धर्मप्रार्थनाया अविशेषज्ञतारूपो व्यवहारः, धर्मस्य | चारम्भावसानसुन्दर परिणामरूपत्वादृद्धेश्व पदे पदे विपदां पदभूतत्वात् महान् विशेषः, अन्यस्य च भवाभिष्वङ्गत इत्थं वोद्धुमशक्तत्वात् "सार्थकानर्थक चिन्तायां तु भाज्यमेतत् ” चतुर्थ:
0000
Jain Education International
For Private & Personal Use Only
पं० युता.
।। ९५ ।।
www.jainelibrary.org