SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ ललितवि० ॥ ८८ ॥ 900535 एतद्विद्याजन्मबीजं तत्परमेश्वरं, अतः इत्थमेवोपयोग शुद्धेः, शुद्धभावोपात्तं कम्मवन्ध्यं सुवर्ण| घटाद्युदाहरणांत्, एतदुदयतो विद्याजन्म, कारणानुरूपत्वेन, 3 " एतद्विद्येत्यादि ” एतत् - प्रतिविशिष्टध्येयध्यानं विद्याजन्मबीजं - विवेकोत्पत्तिकारणं “तदिति” शास्त्रसिद्धं “ पारमेश्वरं " परमेश्वरप्रणीतं, हेतुमाह - " अतः " प्रतिविशिष्टध्येयध्यानाद् " इत्थमेव” विद्याजन्मानुरूपप्रकारेणैव "उपयोग शुद्धेः” चैतन्यवृत्तेर्निर्मलीभावाद् एतदेव भावयति - "शुद्धभावोपात्तं” शुद्धः - अधिकृतकायोत्सर्गध्यानादिरूपो भावस्तदुपात्तं कर्म - सद्वेद्यादि अवन्ध्यम् - अवश्यं शुद्धभावफलदायि, कथमित्याह - "सुवर्णघटाद्युदाहरणेन" यथा सुवर्णघटो भङ्गेऽपि सुवर्णफल एव, आदिशब्दाद्रूप्यघटादिपरिग्रहः, तथा प्रकृतकर्म्मापीति, यद्येवं ततः किमित्याह - " एतदुदयतः” शुद्धभावोपातकम्र्मोदयतो “विद्याजन्म" विवेकोत्पत्तिलक्षणं, कुत इत्याह-- "कारणानुरूपत्वेन" कारणस्वरूपानुविधायी हि कार्यस्वभावः, ततः कथमिव शुद्धभावोपात्तं कर्म न शुद्धभावहेतुः स्याद् ?, अस्यैव हेतोः सिद्ध्यर्थमाह युक्त्यागमसिद्धमेतत्, तलक्षणानुपाति च, "वचगृहकुमेर्यद्वद्, मानुष्यं प्राप्य सुन्दरम् । तत्प्रातावपि तत्रेच्छा, न पुनः सम्प्रवर्त्तते ॥ १ ॥ विद्याजन्मातितस्तद्वद् विषयेषु महात्मनः । तत्त्वज्ञा - नसमेतस्य, न मनोऽपि प्रवर्त्तते ॥ २ ॥ विषग्रस्तस्य मन्त्रेभ्यो, निर्विषाङ्गोद्भवो यथा । विद्याजन्म १ ०रणेन पं० २ शुद्धभावे प्र० Jain Education International For Private & Personal Use Only पं० युता. ॥ ८८H www.jainelibrary.org
SR No.600120
Book TitleLalitvistarakhya Chaityavandan Sutra Vrutti
Original Sutra AuthorHaribhadrasuri
AuthorMunichandrasuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1915
Total Pages258
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy