________________
पारिणामिक इत्येषां, योगे भङ्गो द्वितीयकः॥ ८८॥ क्षायिकौपशमिकाख्यौ, पारिणामिक इत्यपि । औदयिकश्चेत्यमीषां, योगे भङ्गस्तृतीयकः ॥८९॥ क्षायोपशमिकश्चौपशमिकौयिकाहृयो । पारिणामिक इत्येषां, योगे भङ्गस्तुरीयकः॥९॥क्षायिकादयिकाभिख्यौ, क्षायोपशमिकाह्वयः। पारिणामिक एतेषां, योगे भङ्गस्तु पञ्चमः॥९१॥ पञ्चसंयोगजश्चैकः, स्यादौपशमिकादिभिः। पञ्चभिः सन्निपतितः, षड्विंशतिरमी समे ॥१२॥ सप्तमो द्विकयोगोत्थो, नवमो दशमोऽपि च। त्रियोगजी चतुर्योगे, भङ्गो चतुर्थपञ्चमी ॥९३ ॥ एकः पश्चकसंयोगी, षडमी सान्निपातिकाः। जीवेषु संभवन्त्यन्ये, विंशतिः संभवोज्झिताः ॥९४ ॥ यत्तु तत्त्वार्थवृत्तावे|वमुक्तं-"एषामेवीपशमिकादीनां द्विकादियोगेन सान्निपातिको निष्पद्यते षविंशतिविकल्पः, तत्रैकादश वि-| रोधित्वादसंभवन्तस्त्यक्ता विकल्पाः, पञ्चदशोपात्ताः संभविनः, प्रशमरतो “षष्ठ इत्यन्यः पञ्चदशभेद" इति | वचना"दिति तदभिप्रायं सम्यग् न विद्मः, यतोऽनुयोगद्वारवृत्तावेवमुक्तं "तदेवमेको द्विकसंयोगभङ्गको, द्वौ द्वौ त्रिकयोगचतुष्कयोगभङ्गको, एकस्त्वयं पञ्चकयोग इत्येते षड् भङ्गका अत्र संभविनः प्रतिपादिताः, शेषास्तु संयोगमात्रतयैव प्ररूपिता इति स्थितं, एतेषु च षट्सु भङ्गकेषु मध्ये एकस्त्रिकसंयोगो, दो चतुष्कयोगावित्येते त्रयोऽपि प्रत्येकं चतसृष्वपि गतिषु संभवन्तीति निर्णीतमिति गतिचतुष्टयभेदात्ते किल द्वादश वक्ष्यन्ते, ये तु शेषा द्विकत्रिकपञ्चकयोगलक्षणास्त्रयो भङ्गाः सिद्धकेवल्युपशान्तमोहानां यथाक्रम निर्णीतास्ते च यथोक्तैक१ सान्निपातिकमूलभेदषट्स्यावान्तरभेदा एव पञ्चदशेति, स्पष्टं भविष्यति चैतत्रैव, गतिभेदेन भावभेदोऽत्र
Jain Education De
na
For Private & Personel Use Only
A
jainelibrary.org