________________
लो. प्र. ९५
॥ अथ श्रीकाललोकप्रकाशे पंचत्रिंशत्तमः सर्गः प्रारभ्यते ॥
1
स्यात्पुद्गलपरावर्त्तः, कालचक्ररनन्तकैः । द्रव्यक्षेत्र कालभावभेदात्स च चतुर्विधः ॥ १ ॥ एकैकश्च भवेद् द्वेधा, सूक्ष्मवादरभेदतः । अष्टानामप्यथैतेषां खरूपं किश्चिदुच्यते ॥ २ ॥ औदारिकवैक्रियाङ्गाहा र कतैजसोचिताः । भाषोच्छ्वासमनः कर्मयोग्याश्चेत्यष्ट वर्गणाः ॥ ३ ॥ सजातीयपुद्गलानां समूहो वर्गणोच्यते । मौक्तिकानां मिथस्तुल्यगुणानामिव राशयः ॥ ४ ॥ कुचिकर्णो यथा नानावर्णा संख्येयधेनुकः । चक्रे गवां सवर्णानां समुदायान् पृथक् पृथक् ॥ ५ ॥ तथा कृते चाभूवंस्ताः, सुज्ञानाः सुग्रहा यथा । तथा तीर्थङ्करोद्दिष्टाः, पुद्गलवर्गणा अपि ॥ ६ ॥ तथाहि – एकाकिनः सन्ति लोके, येऽनन्ताः परमाणवः । एकाकित्वेन तुल्यानां तेषामेकाऽत्र वर्गणा ॥ ७ ॥ द्वयणुकानामनन्तानां द्वितीया वर्गणा भवेत् । त्र्यणुकानामनन्तानां तृतीया किल वर्गणा ॥ ८ ॥ यावदेवमनन्तानां, गण्यप्रदेशशालिनाम् । स्कन्धानां वर्गणा गण्या, द्व्यणुकत्वादिजातिभिः ॥ ९ ॥ असंख्येयप्रदेशानामप्येकेकाणुवृद्धितः । असंख्येया वर्गणाः स्युः, प्राग्वज्जातिविवक्षया ॥ १० ॥ तथाऽनन्ताजातानां, स्कन्धानामपि वर्गणाः । भवन्त्ये केकाणुवृद्ध्याऽनन्ता इति जिनैः स्मृतम् ॥ ११ ॥ अत्यल्पाणुमयत्वेन, स्थूलत्वादखिला अपि । ग्रहे नायान्ति जीवानां, ग्रहणानुचिता इति ॥ १२ ॥ अधोलङ्खधाखिला एताः, सिद्धानन्तांशसंमितैः । अभव्येभ्योऽनन्तगुणैः, परमाणुभिरुद्गतैः ॥ १३ ॥ स्कन्धैर्याः स्युः समारब्धा, वर्गणा
Jain Education International
For Private & Personal Use Only
१३
www.jainelibrary.org