SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ देहादिपर्यायैः, किंतु वर्द्धिष्णवः क्रमात् ॥४२॥ प्रथमं षोडशाब्दानि, जनानामिह जीवितम् । वर्षाणि विंशतिं चान्ते, वर्द्धमानं शनैः शनैः॥४३॥ एकहस्तोच्चवपुषः, प्रथमं मनुजा इह । वर्द्धमानाः क्रमादन्ते,IST भवन्ति द्विकरोच्छ्रिताः॥ ४४ ॥ आहारादिवरूपं तु, तेषामत्रापि पूर्ववत् । प्रयान्ति दुर्गतावेव, मांसाहारा अमी अपि ॥४५॥ एवमाद्येऽरके पूर्णे, द्वितीयः प्रविशत्यरः।दुष्षमाख्यःप्रातिलोम्यात्, प्रागुक्तदुष्षमोपमः॥४६॥ प्रथमे समयेऽथास्य, पुष्करावर्त्तवारिदः। प्रादुर्भवेन्महीमाश्वासयन्नहन्निवामृतैः॥४७॥ पुष्करं नाम शस्ताम्बु, तेनावर्त्तयति क्षितेः। संहरत्यशुभावस्थां, पुष्करावर्तकस्ततः॥४८॥ तत्तत्क्षेत्रप्रमाणः स्याद्विष्कम्भायामतः स| च । तीव्रार्कतापच्छेदाय, चन्द्रोदय इव क्षितः॥४९॥ क्षणात् क्षेत्रमभिव्याप्य, सर्वस मृदु गर्जति । सान्त्वय-2 निव भूलोकं, दुष्टमेघैरुपद्रुतम् ॥५०॥ स चाभितः प्रथयति, विद्युतो द्युतिमालिनीः । शुभकालप्रवेशार्हा, इव मङ्गलदीपिकाः॥५१॥ मुशलस्थूलधाराभिः, स च वर्षन् दिवानिशम् । निर्वापयति भूपीठं, स्वादुखच्छहितोदकः ॥५२॥ स सप्तभिरहोरात्रै, रेतःलेहामृतार्द्रिताम् । क्ष्मां कुर्याच्छान्तसंतापां, प्राणेश इव वल्लभाम् ॥५॥ ततस्तस्मिन्नुपरते, पुष्करावर्तकाम्बुदे । प्राप्तवार इव प्रादुर्भवति क्षीरवारिदः ॥५४॥ सप्त प्राग्वदहोरात्रान्, सोऽपि वर्षन् दिवाऽनिशम् । चारुगोक्षीरतुल्याम्बुर्वर्णादीन् जनयेत् क्षितौ ॥५५॥क्षीराब्दे विरते तस्मिन् , घृतमेघो घृतोदकः । सप्त वर्षन्नहोरात्रान् , लेहं जनयति क्षितेः॥५६॥ अहोरात्रांस्ततः सप्त, वर्षन्नमृतवारिदः। नानौषधीजनयति, नानावृक्षलताङ्कुरान् ॥ ५७॥रसमेघस्ततः सप्ताहोरात्रान् सुरसोदकः । वनस्पतिषु Jain Educat i onal For Private Personal Use Only M ww.jainelibrary.org
SR No.600119
Book TitleLokprakash Part_4
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages106
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy