SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ ५ भुवि ॥ २९ ॥ रात्री चौरा: पीडयन्ति, प्रजा भूपाः करैर्दिवा । नीरसामपि शैलक्ष्मामिव दावाग्निभानवः॥३०॥ आधिकारिण एव स्युर्नृपाणामधिकारिणः । लञ्चासेवादिभिर्वश्या, न्यायमार्गानपेक्षिणः ॥ ३१॥ नृपा मिथ्यादृशो हिंस्रा, मृगयादिषु तत्पराः। विप्रादयोऽपि लोभान्धा, लोकानां विप्रलम्भकाः॥ ३२॥ असंयता अविरता, नानाऽनाचारसेविनः । गुरुंमन्यास्तेऽपि विप्राः, पूज्यन्ते भूरिभिर्जनैः॥ ३३ ॥ पाखण्डिनोऽपि विविधैः, पाखण्डैर्भद्रकान् जनान् । प्रतारयन्ति दुःखाब्धेयं निस्तारका इति ॥ ३४ ॥ म्लेच्छमिथ्यागादीनां, खखा- चारे दृढास्थता । आर्हतानां च शुद्धेऽपि, धर्मे न प्रत्ययो दृढः ॥ ३५ ॥ पश्चाग्निमाघस्नानादीन्यन्ये कष्टानि 16 कुर्वते । आईतास्त्वलसायन्ते, सुकरावश्यकादिषु ॥३६॥ यत्याभासा गणं त्यक्त्वा, स्युः केचित् स्वैरचारिणः। श्राद्धा अप्यनुगच्छन्ति, तान् बाला पहिलानिव ॥ ३७ ।। गणस्थिताश्च निर्ग्रन्था, धर्मोपकरणेष्वपि । ममत्वाभिनिवेशेन, स्युः परिग्रह विप्लुताः ॥ ३८॥ आराधयन्ति नो शिष्या, गुरुन् गुणगुरूनपि । विज्ञंमन्या गुरुभ्योऽपि, विनयं न प्रयुञ्जते ॥ ३९ ॥ तनयाश्चावजानन्ति, मातापित्रादिकानिति । जानन्ति किममी तत्त्वं, जराजर्जरवुद्धयः॥४०॥ परस्परं विरुध्यन्ते, खजनाः सोदरादयः। परकीयैश्च सौहाई, कुर्वते हार्ददशिनः ॥४१॥ बाल्ये प्रवाजिताः शिष्याः, पाठिताः शिक्षिताः श्रमात् । गुरोस्तेऽपि प्रतीपाः स्युर्ये कीटाः कुञ्जरीकृताः॥४२॥ प्रहिता ये वणिज्याय, विश्वस्तैरन्यभूमिषु । श्रेष्ठिनां तेऽपि सर्वखं, मुष्णन्त्यायीकृता अपि ॥ ४३ ॥ छलेनाश्वास्य जल्पाद्यैः,क्षत्रियानन्ति वैरिणः । प्रायेणानीतियुद्धानि, कुर्वते मृत्युभीरवः॥४४॥ 200300309999 JainEducation For Private Personel Use Only .jainelibrary.org
SR No.600119
Book TitleLokprakash Part_4
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1937
Total Pages106
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy