SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ लोकप्रकाशे काललोके २९ सर्गे ॥ ४१५ ॥ Jain Education यासां भालस्थलं तेन, निर्मलेनेव निर्मितम् ॥ ६० ॥ यदास्यसुषमाकाङ्क्षी, ममज्जाम्भोनिधौ विधुः । तथापि योनिजातस्य तस्य तातस्य सा कुतः ? ॥ ६१ ॥ किंचिदाकुञ्चिताः स्निग्धा, मृदुला श्यामलांशवः । यासामत्यन्ततनवः केशा लेशा इव श्रियाम् ॥ ६२ ॥ मानवा मौलितो वर्ष्या, यद्यप्यंहेस्तु नाकिनः । तथाप्येते|ऽतिपुण्यत्वा देवत्वेन विवक्षिताः ॥ ६३ ॥ सिद्धान्तेऽप्यत एवैषामनेनैव क्रमेण हि । आदिष्टं वर्णनं पूज्यैरियं तद्दिक् प्रदर्शिता ॥ ६४ ॥ एवं च ताः सुवदनाः, सुकेश्यः स्युः सुलोचनाः । चारुवक्षोजजघनाः, सदाऽवस्थितयौवनाः ॥ ६५ ॥ सद्राजहंसगतयः, कलकण्ठीकलखराः । स्वर्णचम्पकचार्वक्यो, द्वात्रिंशल्लक्षणाञ्चिताः | ॥ ६६ ॥ द्वात्रिंशल्लक्षणानि च ज्योतिष्करण्डवृत्तौ श्रीमलयगिरिभिर्दर्शितानि पूर्वोक्तान्येव किन्त्वत्र जम्बूद्वीपप्रज्ञतिवृत्तौ मकरस्थाने मकरध्वज इति दृश्यते, तथा च तदूग्रन्थः - " मकरध्वजः - कामदेवस्तत्संसूचकं सूचनीये सूचकोपचाराल्लक्षण" मिति, तच्च सर्वकालमविधवत्वादि सूचकमिति ॥ खभर्तुः किञ्चिदूनोच्चा, भाग्यसौभाग्यभूमयः । सर्वेषामप्यनुमता, दक्षालापाः प्रियंवदाः ॥ ६७ ॥ सुस्था भाविकश्टङ्गाराः, सीमन्ताधुज्झिता अपि । मदमन्धरगामिन्यो, निर्विकाराशया अपि ॥ ६८ ॥ खाभाविकैरलङ्कारैर्दशभिः स्त्रीजनोचितैः । सुशिक्षिता इव सदा, लीलादिभिरलङ्कृताः ॥ ६९ ॥ ते चामी -- लीला १ विलासो २ विच्छित्ति ३ विव्योकः ४ किलिकिञ्चितम् ५ । मोहायितं ६ कुट्टमितं ७, ललितं ८ विहृतं तथा ॥ विभ्रम ९ श्वेत्यलङ्काराः, स्त्रीणां खाभाविका दश । एतल्लक्षणानि चैवं काव्यानुशासन सूत्रे - वाग्वेषचेष्टितैः प्रियस्यानुकृतिलला १ स्थाना For Private & Personal Use Only युग्मनीवर्णनं २० २५ ॥ ४१५ ॥ २८ ainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy