SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Jain Educat तरवो बिभ्रति श्रियम् । फलादि येषां रात्नादिनानापात्रत्वमियति ॥ ५८ ॥ तूर्याङ्गाख्यास्तदा कल्पतरवः सुखयन्ति च । चतुर्विधानां वाद्यानां, ततादीनां वरारवैः ॥ ५९ ॥ अयं भावः - पत्रपुष्पफलादीनां भवेत्तेषां मरुज्जुषाम् । दक्षशिल्पिप्रयुक्तानामातोद्यानामिव ध्वनिः ॥ ६० ॥ आतोद्यचातुर्विध्यं चैवं-ततं वीणाप्रभृतिकं, तालप्रभृतिकं घनम् । वंशादिकं तु शुषिरमान मुरजादिकम् ॥ ६१ ॥ तदा दीपशिखा नाम, कल्पवृक्षाः स्फुरदुचः । दीपा इव स्नेहसिक्ता, दीप्यन्ते तिमिरच्छिदः ॥ ६२ ॥ अयं भावः - यथा दीपशिखा रात्रौ गृहान्तर्द्योतते भृशम् । दिवसे वा गृहाद्यन्तस्तद्वदेते द्रुमा अपि ॥ ६३ ॥ एवं च वक्ष्यमाणकल्पद्रुमेभ्य एषां | विशेषो भावितो भवतीति ज्ञेयं । अथ ज्योतिषिका नाम, शोभन्ते कल्पपादपाः । ज्योतिर्वह्निर्दिनेशो वा, तत्तुल्यत्वात्तथाभिधाः ॥ ६४ ॥ 'ज्योतिर्वह्नि दिनेशयो 'रिति वचनात् । अयं भावः - तेषां स्वभावात्स्यात्कान्तिरचिरोद्गत सूर्यवत् । विद्युदुल्कावलयवन्निर्द्धमानलपुञ्जवत् ॥ ६५ ॥ अत एव प्रभा तेषां द्रष्टॄणां सुखदा यिनी । दुःखदाऽक्षिप्रातिकूल्यान्न तु मध्यन्दिनार्कवत् ॥ ६६ ॥ नरक्षेत्राद्वहिर्वर्त्तिचन्द्रसूर्यग्रहादिवत् । परस्परावगाढाभिर्लेश्याभिर्भान्ति ते स्थिराः ॥ ६७ ॥ चित्राङ्गा नाम ये कल्पवृक्षास्ते माल्यदायिनः । चित्रं विवक्षया माल्यं, तद्धेतुत्वात्तथाभिधाः ॥ ६८ ॥ यथा प्रेक्षागृहं नानाचित्रोपेतं मनोरमम् । सर्वतो लम्बमानाभिः, पुष्पस्रग्भिरलङ्कृतम् ॥ ६९ ॥ ग्रथितैर्वेष्टिमैः संघातिमैश्च पूरिमैरिति । माल्यैः पूर्ण द्वारदेशोल्लसद्वन्दनमालिकम् ॥ ७० ॥ पञ्चवर्णपुष्पपुञ्जोपचारचारुभूतलम् । सुखदायि भवेल्लोके, तथा ते खर्दुमा अपि ॥ ७१ ॥ त्रिभि For Private & Personal Use Only national १४ jainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy