________________
लो. प्र. ७०
Jain Educatio
राणां च चतस्रः कोटिकोटयः । आयः कालोऽवसर्पिण्यां, सुषमसुषमाभिधः ॥ २९ ॥ तिस्रोऽधिकोटिको ट्योऽथ, द्वितीयः सुषमाभिधः । तृतीयोऽब्धिकोटिकोटिद्वयं सुषमदुष्षमा ॥ ३० ॥ न्यूनः कालो द्विचत्वारिंशता वर्षसहस्रकैः । तुर्योऽधिकोटा कोट्येका, दुष्षमसुषमाभिधः ॥ ३१ ॥ पञ्चमोऽब्दसहस्राणि स्यादुष्षमै - कविंशतिः । तावन्त्यन्दसहस्राणि षष्ठो दुष्षमदुष्षमा ॥ ३२ ॥ एवं दशभिरन्धीनां, कोटाकोटिभिरीरिता । एकाऽवसर्पिणी कालचक्रार्द्ध षडरात्मिका ॥ ३३ ॥ विपरीता व्यवस्थेयमुत्सर्पिण्यां प्रकीर्त्तिता । तथाहि तत्र प्रथमः, कालो दुष्षमदुष्षमा || ३४ ॥ प्राग्वन्मानं त्वस्य वर्षसहस्राण्येकविंशतिः । द्वितीयो दुष्षमाप्यब्दसहत्राण्येकविंशतिः ॥ ३५ ॥ तृतीयोऽब्धिकोटिकोटी, दुष्षमसुषमावधिः । न्यूना सा च द्विचत्वारिंशता वर्षसहस्रकैः ॥ ३६ ॥ वार्द्धकोटाकोटियुग्मं, तुर्यः सुषमदुष्षमा । पञ्चमः सुषमाकालस्तिस्रोऽब्धिकोटिकोटयः ॥ ३७ ॥ चतस्रोऽधिकोटिकोट्यः, सुषमसुषमान्तिमः । उत्सर्पिणीति वार्द्धनां दशभिः कोटिकोटिभिः ॥ ३८ ॥ एवं द्वादशकालाऽवसर्पिण्युत्सर्पिणी भवेत् । पुनः कालविभागास्ते, सुषमसुषमादयः ॥ ३९ ॥ सदा विवर्त्तमानत्वसाधर्म्यादेतदुच्यते । कालचक्रं कालभागाः, पूर्वोक्तास्त्वरका इह ॥ ४० ॥ चक्रस्य भ्रमतो यद्वत्पूर्वाद्धे योऽन्तिमोऽरकः । परार्द्ध प्रथमः स स्याद्यस्तत्राद्योऽत्र सोऽन्तिमः ॥ ४१ ॥ एवमत्राप्युक्तनीत्या, | कालचक्रेऽर्द्धयोर्द्वयोः । वैपरीत्याद्विवर्त्तन्ते, द्वादशाप्यरकाः क्रमात् ॥ ४२ ॥ भरतैरावताख्येषु, क्षेत्रेषु स्याद्दशस्वयं । कालः परावर्त्तमानः सदा शेषेष्ववस्थितः ॥ ४३ ॥ यस्यां सर्वे शुभा भावाः, क्षीयन्तेऽनुक्षणं क्रमात् ।
tional
For Private & Personal Use Only
१०
१४
ainelibrary.org