SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Jain Educatio क्षगुणो मुहुः ॥ १३ ॥ तथाहि - स्यात्पूर्वलक्षैश्चतुरशीत्याऽत्रैकं लताङ्गकम् । लताङ्गानां च चतुरशीत्या दक्षैर्भवे| लता ॥ १४ ॥ लताभिस्तावतीभिश्च भवेन्महालताङ्गकम् । महालता तैस्तावद्भिरित्याशीर्षप्रहेलिकाम् ॥ १५ ॥ नलिनाङ्गं च नलिनं, स्यान्महानलिनाङ्गकम् । महानलिनमेवं स्यात्पद्माङ्गं पद्ममेव च ॥ १६ ॥ महापद्मा च महापद्मं स्यात्कमलाङ्गकम् । कमलं महाकमलाई महाकमलं तथा ॥ १७ ॥ कुमुदाङ्गं च कुमुदं स्यान्महाकुमुदाङ्गकम् । महाकुमुदमेवं स्यात्, त्रुटिताङ्गं ततः परम् ॥ १८ ॥ त्रुटितं महात्रुटिताङ्गं महात्रुटितं तथा । अडडाङ्गं चाडर्ड च, महाडडाङ्गमेव च ॥ १९ ॥ महाडडमधोहाङ्गमूहं प्रोक्तं ततः परम् । महोहाङ्गं महोहं च शीर्षप्रहेलिकाङ्गकम् ॥ २० ॥ शीर्षप्रहेलिका च स्यात्सङ्ख्या पर्यन्तवर्त्तिनी । अस्यां पञ्चाशदधिकं स्यादङ्कानां शतद्वयम् ॥ २१ ॥ १८७९५५१७९५५०११२५९५४१९००९६९९८१३४३०७७०७९७४६५४९४२६१९७७४७६८. ७२५७३४५७९८६८१६ इति सप्ततिरंकाः, अग्रे चाशीत्यधिकं बिन्दुशतं । अत्र ज्योतिष्करण्डवृत्तौ श्रीमलयगिरिपूज्या इति स्माहुः - " इह स्कन्दिलाचार्यप्रवृत्तौ (प्रतिपत्तौ दुष्षमानुभावतो दुर्भिक्षप्रवृत्त्या साधूनां पठनगुणनादिकं सर्वमप्यनेशत्, ततो दुर्भिक्षातिक्रमे सुभिक्षप्रवृत्तौ द्वयोः स्थानयोः सङ्घमेल कोऽभवत् तद्यथाएको वलभ्यामेको मधुरायां तत्र च सूत्रार्थसंघटने परस्परं वाचनाभेदो जातो, विस्मृतयोर्हि सूत्रार्थयोः स्मृत्वा संघटने भवत्यवश्यं वाचनाभेद इति न काचिदनुपपत्तिः, तत्रानुयोगद्वारादिकमिदानीं वर्त्तमानं माधुवाचनानुगतं, ज्योतिष्करण्डसूत्रकर्त्ता चाचार्यो वालभ्यस्तत इदं सङ्ख्यानप्रतिपादनं वालभ्यवाचनानुगत- For Private & Personal Use Only sational १० १४ w.jainelibrary.org
SR No.600118
Book TitleLokprakash Part_3
Original Sutra AuthorN/A
AuthorVinayvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages350
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy