________________
O
लोकप्रकाशे ॥अथैकोनत्रिंशत्तमः सर्गः प्रारभ्यते॥
पूर्वागायकाललोके
धिकारः २९ सर्गे
8| युगैरित्युक्तरूपैः स्याच्चतुर्भिर्वर्षविंशतिः। पञ्चविंशतयोऽब्दानां, वर्षाणां शतमीरितम् ॥ १॥ दशवर्षशता-11
न्यब्दसहस्रं परिकीर्तितम् । शतं वर्षसहस्राणां, वर्षलक्षं भवेदिह ॥२॥ अतः परं च सर्वोऽङ्कः, शीर्षप्रहे-18 ॥४०९॥ लिकावधिः । भाव्यः क्रमेण चतुरशीतिलक्षगुणो बुधैः ॥ ३ ॥ तथाहि-वर्षलक्षाणि चतुरशीतिः पूर्वाङ्गमु
च्यते । पूर्वानलक्षश्चतरशीत्या पूर्व प्रकीर्तितम ॥ ४॥ पूर्वे च वर्षकोटीनां, लक्षाणि किल सप्ततिः । षटपञ्चाशत्सहस्राणि, निर्दिष्टानि जिनेश्वरैः ॥५॥ पूर्वलक्षाणि चतुरशीतिश्च त्रुटिताङ्गकम् । आयुर्मानं भवत्येतना-|| भेयस्य जिनेशितुः ॥६॥ त्रुटिताङ्गैश्च चतुरशीतिलक्षमितैर्मतम् । त्रुटितं स्यात्क्रमादेवमडडाङ्गं ततः परम् ॥७॥ अडडं चाववाङ्गं चाववं च हुहुकाङ्गकम् । हुहुकं चोत्पलाङ्गं चोत्पलं पद्माङ्गमेव च ॥ ८॥ पद्मं च नलिनाङ्गं च । नलिनं स्यात्ततः परम् । भवत्यर्थनिपूराङ्गं, ततश्चार्थनिपूरकम् ॥९॥ अयुताङ्गं चायुतं च, नयुताङ्गं भवेत्ततः। नयुतं प्रयुताङ्गं च, प्रयुतं चूलिकाङ्गकम् ॥ १०॥ चूलिका स्यात्ततश्चाने, शीर्षप्रहेलिकाङ्गकम् । शीर्षप्रहेलिका चेति, पूर्णो गणितगोचरः ॥११॥ क्रमेण स्थापना । शीर्षप्रहेलिकाङ्काः स्युश्चतुर्णवतियुक् शतम्। अङ्कस्थानाभि / २० धाश्चेमाः, श्रित्वा माथुरवाचनाम् ॥ १२॥ भगवतीसूत्रानुयोगद्वारसूत्रजम्बुद्वीपप्रज्ञप्त्यादिष्वयमङ्कक्रमो ज्ञेय ॥ ४०९।। इति भावः ।वालभ्यवाचनायां तु-सङ्ख्याह्वयाश्च सन्त्यङ्कस्थानराशेरितोऽन्यथा। स्यादकोऽत्रापि चतुरशीतिल-RI
१५
Jain Education
For Private
Personal use only
Dinelibrary.org